________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
कन्यसनं । कुतश्चिदनिर्दिष्टनाम्नोऽकोविदात् सिद्धान्ताऽनभिज्ञात् अभवत् । किमुक्तं भवति-कालकाऽऽचार्य कथासम्बन्धिपुरातनपुस्तिकासु 'तव्वसेण' य चउम्मासिआणि वि चउद्दसीए आयरियाणि' इत्यक्षरेषु सत्सु कस्याञ्चित्पुस्तिकायां सिद्धान्तार्थमजानता केनचिन्मतान्तरीयेण तव्वसेण य पक्खिआणि वि चउद्दसीए आयरियाणि' इत्यक्षराण्यागमविरुद्धानि प्रक्षिप्तानि । तथा कथावलीग्रन्थे 'पक्खि अपडिक्कमणत्थं अमावसाए उववासं काऊण' इत्यक्षराणि दृश्यन्ते,स ग्रन्थकारस्याऽनाभोगः कस्यचित् पाश्चात्यस्य प्रक्षेपो वा । पर्युषणाकल्पचूर्णी अमावास्यायां पोपवासस्यैव भणितत्वात् अस्याश्च तदुद्धारत्वात् ॥३६।।
ननु चन्द्रप्रभसूरेः प्रथममताऽऽकर्षकस्योत्सूत्रमस्तु पाश्चात्यानां तशिष्याणां कि दूषणं ? इत्याशङकां परिहरन्नाह
प्राच्यः कृतं ते नोत्सूत्रं, चेत्तत्पापं जनेऽपि न ।
प्रत्युतोग्रं जनोत्सूत्र-स्थैर्यात् प्राच्या ग्रहाच्च तत् ॥३७।। व्याख्या-अहो शिष्य ! चेद्-यदि, प्राच्य :-पूर्वपुरुषश्चन्द्रप्रभसूर्यादिभिः कृतं-विहितमुत्सूत्रम्, ते-तव उत्सूत्रं न भवेत् किन्तु सूत्रमेव, ततः पापं जनेपि न भवति, समग्रपारदारिकतादिचौर्यादिपातकान्तं । पूर्वपुरुष कृतत्वात् पाश्चात्यलोकस्य तत्तत्परदार गमनादिकं कुर्वतोऽपि पातक न जायते । अत्युत्सूत्रमाह-प्रत्युत तत् उत्सूत्रं उदंडं स्यात् । कस्माद् ? 'जनोत्सूत्रस्थैर्यात् प्राच्याऽऽग्रहाच्च' तथोत्सूत्रकरणेन जनस्यापि उत्सूत्रकरणप्रवृत्तौ स्थिरता स्यात् । अयमत्रभावः-चन्द्रप्रभसूरिणा प्रथमत आकृष्टं मतं यदि कोऽपि नाद्रियते, ततो न तत् सर्वजनप्रसिद्धं स्यात् । अतस्तदङगीकारकाणामेक एष प्रवृत्तिदोषः । प्राच्याः चन्द्रप्रभसूर्याद्यास्तेष्वाग्रहस्तस्मात्
For Private And Personal Use Only