________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थो विश्रामः
७७
पाक्षिकत्वे चतुर्दश्याः, पाक्षिकीसप्ततिः प्रमा।
चन्द्रप्रभगुरुभ्रात-मुनिचन्द्रेण निर्मिता ॥३३।। व्याख्या-स्पष्ट: । किल राजश्रीकर्णवारके आचार्यश्रीचन्द्रप्रभसूरि-श्रीमुनिचन्द्रसूरि-श्रीमानदेवसूरि-श्रीशान्तिसूरिप्रभृतय एकगुरुशिष्याश्चारित्रिणोऽभूवन् । तेषां मध्ये प्रभुश्रीमुनिचन्द्रसूरीणां चारित्रं जनपददत्ताऽऽचाम्लीयकेत्याशीर्वादविषयमासीत् । तदानीमेक: श्रीधरनामा महद्धिकः श्राद्धो बहुवित्तव्ययेन जिनप्रतिमानां प्रतिष्ठा कारयितुमुद्यतः । तेन च संविग्नभावितेन वृद्धत्वात् श्रीचन्द्रप्रभाचार्य प्रति (उक्तं) भो पूज्या ! मदीयप्रतिष्ठाकृतये श्रीमुनिचन्द्रसूरीन् प्रत्याज्ञापयतेति । महानुपरोधः कृतः । ततोऽभिमानत्यागाऽक्षमेन चन्द्र प्रभसूरिणा तस्योत्सवस्य विध्वंसाय श्राद्धप्रतिष्ठा प्ररूपिता । एकाकीत्यसौ कारणे पततीत्यभिप्रायेण । अथान्येन केनचिन्मतिभेदेन द्वितीया पूर्णिमा प्ररूपिता। ततः श्रीसङधपादैरनेको युक्तिभिर्ज्ञापितोऽपि चन्द्रप्रभसूरिः स्वाभिनिवेशमत्यजन् सङघबाह्यः कृतः। श्रीमुनिचन्द्रसूरिपादैर्जनानुकम्पया चतुर्दश्यां पाक्षिकमिति सिद्धान्तरहस्यप्रकटनाय पाक्षिकसप्तत्यभिधानं प्रकरणं कृतम् । पाक्षिकस्य विचारविस्तरः पाक्षिकसप्ततिसत्कसूत्रवृत्तिभ्यामेव वसेयः । पाक्षिकसप्ततेमध्यात् पाक्षिकविचारो लेशतोऽत्राप्युपदश्यते । स चायं
विज्जाणं परिवाडी, पव्वे पव्वे अ दिन्ति आयरिआ । मासद्धमासिआणं, पव्वं पुण होइ मज्झं तु ॥१॥ पक्खस्स अट्ठमी खलु, मासस्स उ पक्खिअं मुणेअव्वं ।
सुत्तेवि अ चुण्णीए, पक्खिअं चउद्दसी भणिआ' ॥२॥ अत्र च साई गाथा व्यवहारसूत्रोक्ता । शेष मुत्तरार्द्धमाचार्योक्तम् । अस्य
For Private And Personal Use Only