________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. गुरुतत्त्वप्रदीप
पूर्णिमायां पारणके परैः प्रदत्तं दूषणं परिहरन्, परेषां चतुर्दश्यामुत्तरपारणककरणे विलग्नं विशिष्टदूषणं दर्शयंश्चाह
उपवासश्चतुर्दश्यां, पूर्णिमायां तु न श्रुते ।
आद्या प्रायस्ततोऽप्यज्ञः, कृतवोत्तरपारणे ॥३१॥ व्याख्या-श्रुते-सिद्धान्ते, पाक्षिकोपवासश्चतुर्दश्यामुक्तः । उक्तं च महानिशीथे
'अट्ठमि-चउद्दसी-णागपञ्चमी-पज्जोसवणा-चाउम्मासिए चउत्थट्ठमछठे ण करेज्जा खवण' । ततो युक्तं पूर्णिमायां पारणकम् । तु-पुनः, पूर्णिमायां पाक्षिकोपवासो न प्रोक्तः । ततोऽध्यज्ञ:मूर्खः, प्रायो-बाहुल्येन, आद्या-चतुर्दशी पूर्णिमोपवासस्योत्तरपारणके कृता । महदूषणमेतदेतेषाम् ॥३१।।
चतुःपर्वीमध्ये पूर्णिमायामप्युक्ते उपवासे पाक्षिकं सिद्धमिति परोक्तमाक्षिपन्नाह
श्राद्धानां या चतुःपी, सा नवाऽऽलम्बनं यतेः ।
अनुश्राद्धं यतिर्यन, न तस्यामपि पाक्षिकम् ॥३२॥ व्याख्या-सिद्धान्ते अष्टमी-चतुर्दशी-पूणिमाऽमावास्यारूपा (या) चतुःपर्वी उक्ता, सा श्राद्धानां-श्रावकाणामेवोक्ता । अत एव यतेः-चारित्रिणश्चतुःपर्वी न पाक्षिकस्याऽऽलम्बनम् । यतः श्राद्धपृष्ठलग्नो न यतिः । यतिपृष्ठलग्नः श्राद्धः । तथा तस्यामपि-चतुःपामविपाक्षिक-पाक्षिकप्रतिक्रमणं, न सूत्र प्रोक्तं । केवलं पौषधव्रतमुना । इत्थमपि यत्पूर्णिमायां पाक्षिक स्थाप्यते, सा मूर्खेभ्योऽपि मूर्खता ॥३२।।
चतुर्दश्यां पाक्षिकस्य प्रामाग्यमाह
For Private And Personal Use Only