SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थी विश्रामः सामान्येन कृताः । पुनरागम संलग्नव्याख्यानाऽऽधारभूतत्वेनाऽऽगमा इतिभयन्ते सूत्रचूर्णीनां तदि थं गौणाऽऽगमत्वसूचनेत्युक्तम् ||२८|| अथ सूत्रचूर्णीनां सूत्रवृत्तानां कालकाचार्य कथायाश्च सिद्धं गौणाऽऽयमत्वं प्रदर्शयन्नाह एतास्वमिदं गौणं स्यात् तथा सूत्रवृत्तिषु । योगोद्वाहाविहीनं च कथायां सूत्रमार्गतः ॥ २९ ॥ ७५ व्याख्या- 'एतासु ' सूत्रचूर्णीषु एवं अमुना सूत्रव्याख्यानरूपेण प्रकारेणेदं सूत्रत्वं गौणं- गौणरूपं स्याद् भवेत् । तद्वृथा मुख्यरूपाऽऽगमाऽक्षराऽङ्गीकाराऽभिमानोऽमृषु । तथा सूत्रवृत्तिष्वपि गौणरूपं सूत्रत्वं सूत्रव्याख्यानरूपतस्सिद्धम् । तथा कथायां योगो - हनं आदिशब्दादकालगुणनाऽनध्यायादि, तैर्हीनं सूत्रत्वं गौणरूप सिद्ध्यति । कस्मात् ? सूत्रमार्गतः - सिद्धान्तानुयायितया । किल कालकाचार्यचरितस्य सूचनामात्रस्य सिद्धान्ते उक्तत्वात् । ततस्तेन सविस्तरेणापि भवितव्यम् । तद्विस्तरस्य सङ्घ परम्परायातत्वेन गौणागमरूपस्य या आधारभूता कथा, तस्याः सूत्रानुयायित्वमुपपन्नमेव । सूत्र संलग्नव्याख्यानाभावेन तु योगोद्वह्नादिकमनुचितम् । पुनस्सूत्रचूणिसूत्रवृत्तिवदनुल्लङ्घनीयता समुचितैवेति ॥ २९ ॥ भङग्यन्तरेण परसम्मतं पूर्णिमाया बाह्यत्वमाह - सप्रतिक्रमणा सघ - बाह्या स्यात् पञ्चमी यथा । सङ्घाऽऽज्ञाभङ्गगतो जाता, पूणिमाऽप्यधुना तथा ॥ ३० ॥ व्याख्या - स्पष्ट: । नवरं यथा कश्चित् साम्प्रतं पञ्चम्यां वार्षिकं प्रतिक्रमयन् युष्माभिरपि बाह्यः क्रियते, तथा यूयमस्माभिरपि सङ्घबाह्याः कृताः ॥ ३० ॥ For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy