________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
७४
व्याख्या-नन्वस्मिन् कालेऽस्मिन् क्षेत्रे भगवदुक्ताऽनन्तगुणहानिर्भवताऽप्यभिमता । ततः सा पश्चानुपूर्व्या चिन्तिता सत्यनन्तगुणवृद्धिर्भवेत्। सा चेत्थं पूर्वस्मिन् काले पूर्वाऽऽचार्याणामेवोपपन्ना। अतश्चेद्-यदि, पूर्वसूरयः-पूर्वाऽञ्चार्या अनन्तगुणवृद्धया आढ्या:समृद्धास्त्वत्तः-तव पार्वात् संसिद्धाः । ततस्तन्मतकथालोपे पूर्वाञ्चार्यसम्मतकालिकाचार्यकथाच्छेदे, तवाऽनन्तो भवः-संसारो, युक्तो-युक्तिमान् । अनन्तगुणवृद्धानामुल्लङघनेऽनन्तसंसारित्वं गणितानुसारेणैव समायाति ॥२७॥
सूत्रचूर्णे: सिद्धान्तोऽयमिति नामश्रवणात् गौणश्रुतत्वमजानता भ्रान्तचित्तेन चन्द्रप्रभसूरिणा कल्पचूर्णी चतुर्थ्या दर्शनाच्चतुर्दश्या अर्दर्शनाच्च यूयमकारणामेकामाचरणाध्यातां चतुर्थी मन्वाना द्वितीयामाचरणाभ्यातां चतुर्दशी कथं न मन्यध्वे ? इति पृष्टेन वयं सूत्राऽक्षरोक्तमेव मन्यामहे इति ब्रुवाणेन चतुर्थीमेव मन्वानेन सूत्रचूर्णीनां मुख्यवृत्त्याऽऽगमत्वं यत्प्रदत्तं तद्विघटयन् सूत्रचूर्णीनामेव गौणाऽऽगमत्वसूचनां दर्शयंश्चाह
चतुर्व्याख्याऽद्यभावेन, सामान्यस्य कृतावपि । सूत्रत्वं सूत्रचूर्णीनां, सूत्रव्याख्यानरूपतः ॥२८॥ व्याख्या-सूत्रचूर्णीनां यत् सूत्रत्वमुच्यते, तत् सूत्रव्याख्यानमेव यद्रूपं तस्माद् । अत एव तद्विरहे कर्मग्रन्थादिचूर्णीनां सूत्रत्वाभावः। क्व सति ? सामान्यस्य कृतावपि । न च गणधरादिकृतत्वं सूत्रचूर्णीनां । किं ? इत्याह-चतुर्व्याख्याऽऽद्य भावेन । सिद्धान्ते हि अपश्चिमदशपूर्वधरं यावच्चत्वारि द्रव्यानुयोगादिव्याख्यानान्यभूवन् । तेषां चूर्णीष्वदर्शनेन, आदिशब्दात् सप्तशतनयानां व्याख्यानाऽदर्शनेन चेत्यनुमीयते-यच्चूर्णयः केनचिद्गणधरादिव्यतिरिक्तेन
For Private And Personal Use Only