________________
Shri Mahavir Jain Aradhana Kendra
गुरुतत्त्वप्रदीपे
www.kobatirth.org
"
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या - उक्तं च पञ्चमाङगे - 'जंबूदीवेण भन्ते ! दीवे भारहे वासे इसे ओप्पणीए देवाणुप्पिआणं पुब्वगए केवइअं कालं अणुसज्जिस्सइ । गोयमा ! जम्बूदीवे दीवे भारहे वासे इमीसे ओसप्पिणीए ममं पुव्वमए एगं वाससहस्सं अणुसज्जिरसइ' कालिकाचार्यस्य पश्चात् षट्सप्तशत वर्षोद्देशे सिद्धान्तः पुस्तके लिखितो घटते । तदनु चूर्णयो निष्पन्नास्तदनु च कथाया निप्पन्नत्वं बहुतरकाभवनान्न घटते । कथमित्याह यतः कथायां सूरे:- कालिकाचार्यस्य पित्रादिविशेषाः - मातृपितृनाम, आदिशद्वादन्येपि ये विशेषाः कथितास्सन्ति । ते श्रुते - सिद्धान्ते न दृश्यन्ते, केवलं सामान्यमात्रं दृश्यते । ततस्ते विशेषा अतिदूरतरकालेन कस्यापि कथाकर्तुर्न स्मरन्ति । अतः कालिकाचार्यस्य पश्चात्सार्द्धशतद्विशतादिवर्षोद्देशे कथाया निष्पन्नत्वं घटते ||२४|
-
नन् विशेषाणां कथंनकल्पितत्वं ? इत्याशङकापरिहारायाहअगोपाङ्गप्रकीर्णादि, यथा सङ्घापितं प्रमा । विशेषास्ते तथा सुरे-रन्यथाऽऽशातनाप्यलम् ॥ २५ ॥ व्याख्या - अङ्गान्युपाङ्गानि प्रकीर्णका नि, आदिशद्वान्निर्युक्तिभाष्यचूणिप्रभृति, सङ्घार्पितं - सङ्घपरम्पराऽऽयातं सत् चन्द्रप्रभसूरेर्यथा प्रमाणं बभूव तथा कालकाचार्यस्य ते पित्रादिविशेषाः सङङ्घपरम्पराऽऽयाता बलात्प्रमाणमभूवन् । अन्यथा सूरे:- कालिकाचार्यस्य सम्बन्धिनी आशातना अलं- अत्यर्थं, कथाकर्तुरन्यतरपित्रादिकथनेन भवति । अपि शब्दात्सङ्घपरम्परायातानां विशेषाणां अप्रामाण्ये सङ्घपरम्पराया असङ्घत्वभवनेन सङ्घव्यवच्छेदः स्यात् । व्यवच्छिन्ने सङ्घे नूतन सङघकरणं तीर्थंकरेणैव भवतीति भवद्भिरप्यभ्युपगतमास्ते । श्रीमहावीरस्वामिनः पश्चात् श्रीपद्मनाभस्वामिनं यावदन्तरालेऽन्यतरस्य तीर्थंकरस्यानुत्पादात् ।
"
७२
For Private And Personal Use Only