________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थी विश्रामः
चाउम्मासिआणि चउदसीए आयरणा' इति वाक्यतः पाश्चात्यानामप्यादेशोऽभवत् । कथायां 'प्रमाद्यत्वं' प्रमात्वं प्रामाण्यम्, आद्यत्वं- अपाश्चात्यं च । कस्मात् ? सकल्पत्वात्-कल्पसख्युवतत्वात् । क्व ? व्याख्याने, न केवलं व्याख्याने, पुस्तकेपि (च)। एषा कथा कुपक्षेष्वपि पर्युषणाकल्पसहिता व्याख्यायते । समग्रेण्वाद्यपुस्तकेषु पर्युषणाकल्पसहिता दृश्यते च । न च किमपि पर्युषणाकल्पस्याऽऽद्यं पुस्तकं कथाविरहितं दृश्यते । अतो ज्ञायते यदा कल्पोऽयं पृथग्लिखितस्तदा कल्पपुस्तके कथा लिखिता । अतो यदि कल्पस्यास्य प्रामाण्यमाद्यत्वं च ततः कथाया अपि प्रामाण्यमाद्यत्वं च ||२२|| कमायाः परोपन्यस्तं पाश्चात्यमेवोत्थापयन्नाह -
Ap
सङघाच्चेत् तत्कथा चूर्णेः, प्राक् सूरिमनु यत्कथा । अल्पाद्धा पुस्तकन्यस्त - सिद्धान्तमनु चूर्णयः ॥ २३ ॥
व्याख्या - तावदियं कथा सङघाच्छिन्नसूत्राद्वा श्रुत्वा केनचित्पूर्वाचार्येण कृतेति घटते । ततो यदि सङ्घादियं कथा निष्पन्ना ततः चूर्णेः प्राक् - पर्युषणाकल्पचूर्णेः प्रथमं निष्पन्ना । कथमित्याह'यत्' यस्मात्कारणात् सूरि - कालकाचार्यं अनुलक्षीकृत्य इयं कथा सञ्जाता । किंविशिष्टा ? अल्पाद्धा - तुच्छकाला, सूरे: पश्चादल्पकालेन निष्पन्नेत्यर्थः । चूर्णयः पुनः पुस्तकन्यस्तसिद्धान्तंपुस्तक लिखितागमं अनुलक्षीकृत्य निष्पन्नाः ॥ २३॥
७१
ननु चूर्णेः पश्चात्कथाया निष्पन्नत्वं कथं न ? इत्याशङकापरिहारायाह
कथायां सूरिपित्रादि- विशेषा ये श्रुते न ते । यत्तत्कालातिदूरत्वा न स्मरन्त्यपि कस्यचित् ॥ २४ ॥
For Private And Personal Use Only