________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
वेधनाशाय - वेधानां वक्ष्यमाणलक्षणानां विनाशनार्थम् । चतुर्दश्यङगीकृति विना हि बहुतरस्थानेषु सिद्धान्ते विरोधो भवति ।। १४-१५-१६ ।। त्रिभिर्विशेषकम् ॥
६८
चतुर्दश्यङगीकारं विना सिद्धान्ते चतुविधानामुत्पत्ति दर्शयन्नाहस्यात् पञ्चाशविबाघातो, विनंतामेकजातितः । पाक्षिकादिविवास ऊंख्या - घातनाप्तिर्भवेत्तथा ॥ १७॥
व्याख्या - एतां चतुर्दशीं विना पञ्चाशददिवाघातः चतुर्मासकवार्षिकयोरन्तराले पञ्चाशदिवसानां विनाशः स्यात् भवेत्, पूणिमाङ्गीकारे एकोनपञ्चाशद् दिवसा भवन्तीत्यर्थः । इत्येकः सिद्धान्तवेधः । अथ वेपत्रिकमाह तथा 'पाक्षिकादि' इत्यादि । पाक्षिकस्य, आदिशब्दाच्चतुर्मासिकवार्षिकयोः ये दिवा - दिनास्तेषां सङख्या परिमाणं तस्या घातनं हननं, तस्याप्तिर्भवेत् जायते । कस्मात् ? एकजातितः-सजातियत्वात्, सजातियत्वं च पञ्चाशता समं पञ्चदशादेः । किमुक्तं भवति-पाक्षिकस्य पञ्चदश दिनाः, चतुर्मासकस्य विंशत्यधिकं शतं दिनाः, वार्षिकस्य षष्ट्यधिकानि त्रीणि, शतानि दिनाः । तेषु दिवसेष्वपूर्णष्वेवैतत् पर्वत्रयं प्रतिक्रामन् परोप्यनिवार: स्यात् । इति सूत्रे वेधत्रयमुत्पद्यते ॥ १७॥ अक्षरानुक्तचतुर्दश्यङगीकारेऽक्षरोक्त पूर्णिमात्यागे कथं नाम न सूत्रवेध : ? इति परर्न्यस्तं वेधं परिहरन्नाह
सदृशी नापि पञ्चम्याः पर्व्वत्वेन चतुर्ष्वपि । कायास्तु सदृक्प्रोक्ता, पव्वंत्वेन चतुर्दशी ||१८|| सदृग्दिनपरावर्ती, दिनस्तैन्याद् गुणाय तत् । पञ्चकानि प्रमेत्थं च सप्तत्यादिदिनान्यपि ।। १९ ।।
For Private And Personal Use Only