________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थी विश्रामः
तत्कालवर्तिनां सर्व्व साधूनां सञ्जातम् । युष्माकं किं कारणम् । चूणरक्षरेषु न तत्कुत्राप्युपलभ्यते । अथ चतुर्थी चरितानुवादः, स च विधिवादाविरोधी कारणोपात्तो वा पाश्चात्यानां प्रमाणम् । ततः कथं युष्माभिश्चतुर्थी क्रियते । तु-पुनः सा चतुर्थी सङ घादृतासङ्घाङगीकृता सती अत्रापि वर्णावपि प्रमा- प्रमाणं एवं चउत्थीवि जाता कारणिया' इति चूर्णिकारोक्ताक्षरेषु कारणं नाम सडधाज्ञाया आघाट इत्येतस्याप्यर्थस्य सङ्घादृतत्वेन चतुर्थी अग्रतोपि प्रमाणम् । नवपूर्वधारत्वेन युगप्रधानत्वेन वा कालिकाचार्यवृताया अस्याः प्रामाण्यं, गणधरादीनामपि शास्त्रकरणलब्धि मुक्त्वान्यत्र स्खलितस्यापि सम्भवात् । अन्यथा गौतमस्थूलभद्रा दिल्ल लितानामभावात् । अमीषां विमर्शकारिताया अप्यागमाक्षराणामपि संघादृतत्वेन प्रामाण्यात् । अन्यथा लौकिकशास्त्राक्षराणामपि प्रामाण्यप्रसङ्गात् । आगमाक्षराणामपि भङ्गपरावर्तादेः सुकरत्वेनैवास्याः प्रामाण्यमापनम् । किमर्थमग्रतः सङ्घादृता ? इत्याह- सङ्घाज्ञाघाटाय । इयं चतुर्थी सङघाज्ञाया आघाट इति पाश्चात्यानां ज्ञापनाय । पश्चादपि यत् किञ्चित् तत्कालवर्ती सङघो नूतनं वितनोति तदागमानुक्तमपि चतुर्थीवत् सङ्घाज्ञेति कृत्वा पाश्चात्यैरपि तत्कालवत सर्वसङ्घानुमत्या मन्तव्यमनुष्ठेयं च । अस्याघाटस्य प्रामाण्येनसङ्घाज्ञा केनापि नोल्लङघनीयेति मर्यादायै सङ्घेनादृतेत्यर्थः । ततो यथा पर्युषणपृष्ठलग्नं सांवत्सरिकप्रतिक्रमणं चूर्णे चतुर्थ्यामनुक्तमप्युक्तं मन्तव्यं । तथा सांवत्सरिकप्रतिक्रमणस्य पर्युषणेन समं एकदिवसभवनलक्षणसम्बन्धात् सांवत्सरिकप्रतिक्रमणपृष्ठलग्ना चतुर्मासिकचर्तुदश्यपि चूर्णावनुक्ताप्युक्तैव मन्तव्या । यद्यस्मात् कारणादेषापि सङघात्ता - सङघेन गृहीता, किमर्थं ? श्रुते - सिद्धान्ते,
For Private And Personal Use Only
६७