________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीप
कानुष्ठानं । तथाकरणे पर्युषणस्य गृहस्थज्ञातताभवनात् वर्षप्रमाणबाधनाच्च । उक्तं च श्रीमुनिचन्द्रसूरिपादः- 'बारह मासह चउवीसह पासह' इत्यादिक: सांवत्सरिकक्षामणाधिकारे पाक्षिकचूादिनिरूपितः क्षामणाऽऽलापकः. सर्वसांवत्सरिकपर्वसु सत्यार्थो न स्यात् । अतएवाऽभिवद्धितसंवत्सरे विशतिदिनेषु प्राक् प्रवृत्ताधिकमासवशेन वर्षाकालस्वरूपे प्राय उपलब्धे यत् पर्युषणं तद् गृहस्थज्ञातं 'ठिआमो' त्ति भणनमात्रं, न सांवत्सरिकानुष्ठानं, श्री भद्रबाहुस्वामिपादस्तदनुष्ठानगन्धस्याप्यसूचितत्वात् । तु-पुनः, पञ्चम्यां भाद्रपदशुक्लपञ्चमीमाश्रित्य पर्मनं सिद्धान्त मधाषि-विप्रकारमपि, लोकज्ञातं 'ठिआमोतिभणनरूपं स्यात्, पर्युषणशब्दस्य पञ्चमीमाश्रित्य द्वयर्थत्वात् । चेद्-यदि, एतद्विप्रकारं त्वया चतुर्थ्यां सूत्राक्षराऽदृष्टमपि समाचीर्णत्वान्मतम् । अर्वाचीनपञ्चकेसु पर्युषणाकल्पकर्षणादिसूत्रोक्तविधिकरणाभावात् । अत्र किल यच्चतुर्थ्यां 'ठिआमो' त्तिभणनं कृतं सा सामाचारी अग्रेऽन्त्यपञ्चके पञ्चमी दिने द्विप्रकार. मपि मिलितमेव क्रियते। इत्यादि कारणात् सांवत्सरिकानुठानमपि यत् चतुर्थ्या कृतं सापि सामाचारी । इति चतुर्थ्यां द्विप्रकारमपि समाचीर्णम् । यद्यतन्न मतं, ततस्त्वया चतुर्दश्यां चतुर्मासी समाचीर्ण त्वात्किं न मता ? । एक समाचीणं मन्वानस्य अपरं समाचीर्णममन्वानस्य प्रकटैव तव भ्रान्तता। अथ चूणाचेत्-पर्युषणाकल्पचूणिमध्ये निशीथचूणिमध्ये च चतुर्दशी न दृष्टा, अतोस्माभिर्न मता इति चेत् । ततश्चूर्णी चतुर्थ्या अपि नाग्राप्तिांग्रतः करणस्य प्राप्तिः। यदाह पर्युषणाकल्पचूणिकार:
_ 'एवं चउत्थीवि जाता कारणिआ'। तथाह निशीथचूर्णिकार:'जुगप्पहाणेहिं चउत्थी कारणेणं पवत्तिआ, सा चेव अणुमया सव्वसाहूण' । ततः कालिकाचार्यस्य शालवाहनप्रार्थनालक्षणं कारणं
For Private And Personal Use Only