________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थो विश्रामः
व्याख्या-अत्र-अस्मिन् जिनशासने, आज्ञायुक्तो-वीतरागादेशसंयुक्तः, स सङधः । आज्ञायुक्तत्वमस्माकं, ततः सङ घत्वमपीति चेत्, ततः साऽऽज्ञा सङ्घक्रम एव भवेत् । य एव सङ घक्रमः स एव वीतरागादेशो । नहि भगवदादेशो निरालम्बः क्वचिद् ध्वनन्नुपलभ्यते । सङघक्रमाधारत्वात् तस्य । स च सङघक्रमश्चतुर्दश्येवाज्ञा। अतश्चतुर्दशीयकानामेव सङ्घत्वं, नान्येषां । एतावता वो-युष्माकमस्थिसंघातत्व-अस्थिसमूहत्वं, उपस्थितंढोकितम् । उक्तंच- 'एगो साहू एगा वि साहुणी सावओ अ सड्ढी वा। आणाजुसो संपो सेसो पुण बदिसंधाबो' ॥१॥१३॥
वयं चतुर्थी वर्षप्रतिक्रमणं समाचीर्णमिति भणित्वा न कुर्मः, किन्तु सूत्राक्षराणां प्रामाण्येन कुर्मः इति परोक्तमुत्थापयन् पर्युषणाकल्पचूर्णावपि विशेषव्याख्यानपरिज्ञयं चतुर्दश्याः प्रामाण्य प्रदर्शयन्नाह- . .
अर्वाक् पर्युषणं वासः, पञ्चकेषु न वार्षिकम् । .. पञ्चम्यां तु द्विधाप्येतच्चतुर्थ्यां चेन्मतं ततः ॥१४॥ चतुर्मासी चतुर्दश्यां, न कि चूर्णी न चेत् ततः । चतुर्थ्या अपि नानाप्तिश्चरितस्यानवावतः ॥१५॥ सङघाइता तु सङघानाऽऽ-घाटायात्रापि सा प्रमा। चतुर्दश्यपि सङघासा, वेधनाशाय यत् श्रुते ॥१६॥
त्रिभिविशेषकम् ।। व्याख्या-यत् सिद्धान्ते 'आरेणावि पज्जोसवेअब्वं' इत्यक्षरैः पर्युषणं अर्वाक्कथितम् । स वासो-वसनं गृहस्थाज्ञातवर्षाकाला वस्थानाभिग्रह इत्यर्थः । सोपिपूर्णिमा-पञ्चमी-दशमी-अमावास्यापर्यवसानेषु पञ्चकेषु भवति, न चतुर्थ्याम् । 'न वार्षिक' न सांवत्सरि
For Private And Personal Use Only