________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
सिद्धम् । तत्-तस्मात्कारणात्, तदाज्ञाऽवज्ञावान्-सङ घाज्ञावगणनायुक्तः पुमाननन्तसंसारभाग् जायते । सङ घाज्ञा च चतुर्मासकचतुर्दशी । तस्या उल्लङ्घने युक्तमेवानन्तसंसारित्वं तद्वताम् । उक्तंच- जो अवमन्नइ सङ, पावो थेपि माणमयलित्तो।
सो अप्पाणं बोलइ, दुक्खमहासागरे भीमे ॥१॥ सिरिसमणसंघासायणाइ पावंति जं दुहं जीवा ।
तं माहिउं समत्थो जइ परि भयवं जिणो होइ ।।२।। तीर्थकरनमस्कृत्या तीर्थस्य प्रामाण्ये सिद्धेपि प्रमाणान्तरमाह
अर्हदर्थोक्तिवत्सङघा-दिष्टं नोत्सूत्रां व्रजेत् ।।
नात एवोपसंहारो, वशवकालिकेऽभवत् ॥१२॥ व्याख्या-सङ धाऽऽदिष्ट-सङ घस्यादेश उत्सूत्रतां-उत्सूत्रभावं, न व्रजेत्-न गच्छेत्, सङघादेशस्तु चतुर्मासकचतुर्दशीरूपः, तस्य सूत्रतैव । यथाऽर्हतस्तीर्थकरस्याऽर्थोक्तिरर्थभाषणमुत्सूत्रभावं न गच्छेत्, तथा सङ्घस्यापि । तत्र प्रमाणमाह-' नात' इत्यादि। अत एव कारणाद् दशवकालिक सिद्धान्ते उपसंहार-उपसंहरणं पूर्वान्तः प्रक्षेपणं, नाऽभवत् । सूत्राक्षराणां प्रमाणेन अपश्चिमदशपूर्वधरस्य दशवकालिककरणमधिकृतम् । श्रीशय्यम्भवसूरिपादस्तु स्वसुताऽनुकम्पयाऽपवादपदमाश्रित्य श्रुताद् दशवकालिकमुद्धृतम्। दिवंगते सुते पूर्वधरस्याप्यस्य दशवैकालिकमग्रतः स्थापयितुं न प्राप्तिरभूत् । पुनर्भट्टारकश्रीसङ्घपादानामादेशेन श्रुतमिदमग्रतोपि स्थितम् ।१२।
सङघादेशे सूत्रतया सिद्ध कुपक्षरात्मन उक्तं सङ धत्वं चतुर्दश्या एवोपपद्यते इति प्रदर्शयन्नाह_ . आज्ञायुक्तोऽत्र सङघश्चेत्, साऽऽज्ञा सङघक्रमो भवेत् ।
चतुर्दश्यां स तद्वोऽस्थि-सङघातत्वमुपस्थितम् ॥१३॥
For Private And Personal Use Only