________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थो विश्राम:
यदा त्वद्गुरुणा राका, श्रिता तीर्थमभूत्तदा । नाभूत्कि तदभूच्चेत् त-तस्याऽऽज्ञां ही लुलोप सः ॥९॥
व्याख्या-त्वद्गुरुणा यदा-यस्मिन्काले, राका-पूर्णिमा श्रितागृहीता, तदा-तस्मिन् राजश्रीकर्णकाले, तीर्थ-सङघोऽभूत् किं न अभूद् ? इति विकल्पद्वयम् । यदि प्रथमो विकल्पस्तत्तीर्थमभूत् । ततो'ही' इति खेदे, तस्य तीर्थस्याऽऽज्ञामादेशं स चन्द्रप्रभसूरिनुलोपचिच्छेद । यतस्सन्तिष्ठमानतीर्थे तदा पूर्णिमाप्रवृत्ति सीत्ततः पूर्णिमाङ्गीकारे तीर्थाऽऽज्ञालोपः सुखेनाऽऽढौकितः ॥९॥
तन्नाभूच्चेत् तदेते कि, धर्म इत्यक्षरे यदि । तीर्थ ते त्वद्गुरुस्तीर्थकृन्न तत्कि हि तत्ततः ॥१०॥ व्याख्या-चेद्-यदि, तत्तीथं नाभूत्तदैते किं-कथं गुर्जरावनी धर्म इत्यक्षरद्वयं श्रूयते । अनार्यस्वरूपं ब्रुवद्भिर्भगवद्भिरित्थमुक्तं
पावा य चंडदंडा अणारिआ निग्घिणा निरणुकंपा ।
धम्मोत्ति अक्खराइं, जेसु न नज्जति सुमिणेवि ॥१॥ त्वद्गुरुश्चन्द्रप्रभसूरिस्तीर्थकरः किं न सञ्जातः ?, यतस्तीर्थकरं विना तीर्थमन्येन नोत्पाद्यते । त्वदीये तु पूणिमा तीर्थ । सा च चन्द्रप्रभसूरेरग्रतो व्यवच्छिन्ना आसीत् । ततः- तीर्थकराप्रकाशनात् पूर्णिमाया अतीर्थतैवेति ।।१०।। तीर्थप्रामाण्यं तीर्थाऽऽज्ञाभङ्गफलं च प्रदर्शयन्नाह
अनुसाघमिति ब्रूते, नमस्तीर्थाय तीर्थकृत् ।
यत्तत्तदाज्ञाऽवज्ञावा-ननन्तभवभाग भवेत् ॥११॥ व्याख्या-सङघं अनुलक्षीकृत्य यद्-यस्मात् कारणात् तीर्थकरो 'नमो तित्थस्स' इति ब्रूते-जल्पति । नहि तीर्थकर उत्सूत्रकारिणं नमस्कुरुते । तीर्थकृन्नमस्कृत्यैव सङघकृतस्यानुत्सूत्रत्वं
For Private And Personal Use Only