________________
Shri Mahavir Jain Aradhana Kendra
गुरुतत्त्वप्रदीपे
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भावशकुनादिनिरीक्षणगृहीतचारित्राणां शतसहस्र लक्षसङख्यातानामपि महात्मनां मध्यादेकस्यैव कस्यचिद्विप्रतिपत्तिसम्भवात्, तस्य सुकरं सङ्घबाह्यत्वम् । न चैतच्चतुर्दशीयकानां दृश्यते । ततोऽनादिसं सिद्धाश्चतुर्दशीयकाः, सिद्धान्ते चतुर्दशीषु पाक्षिकाणां दर्शनात् । तदेवमसत्यवचांसि ब्रुवद्भिः भवद्भिरेक एवायं श्लोकः
सत्यः कृतः ।
}
६२
यदाह - यथा यथा विचार्येत, विशीर्येत तथा तथा । असत्योक्तं बहीरम्यं नान्तः खरपुरीषवत् ॥ १॥ अतो युष्माकमेव सत्यरूपं सङ्घबाह्यत्वमधुनापि दृश्यते । तथा चतुर्दशी आद्या- प्रथमा, कथं श्रूयते ? सर्वः कोपि चतुर्दशीं प्रथमां, पूर्णिमां पाश्चात्यां मन्यते । न च मिथ्यादृष्टिप्रकल्पितप्रसिद्धिरपि सर्वथैवाप्रमाणम् । मिथ्यादृष्टिप्रकल्पितप्रसिद्धीनामपि रामायणादी रामलक्ष्मणपुरुषादिवद्देशतः प्रायः प्रामाण्यसंवादसिद्धेस्ततो जैनागमवत्समग्र जैन लोकप्रसिद्धिस्सर्वथा प्रमाणमेव । समग्र जैन लोकप्रसिद्धं चैतत् यत् पूणिमा पाश्चात्या | अतः सत्यमेवैतदिति । कुत्रापि लोकमध्ये त्वच्छास्त्रमध्ये च पूर्णिमामध्याच्चतुर्दशी निःसृतेति न श्रूयते । श्रूयते (च) कुपाक्षिकसप्ततिकुमतकुट्टनाचरणामहोदधिप्रभृतिशास्त्रेषु चतुर्दश्या मध्यात्पूणिमाया निस्सरणम् । 'कृतेत्यादि । चेद्यदि, पूर्व राकया चतुर्दशी कृता, सर्वेपि पूर्णिमयका एव चतुर्दशीयकाः स्थिता इति चेत्ततः 'तल्लोपे ' तस्याश्चतुर्दश्या लोपे-छेदे पूणिमा लुप्तैव छिन्नैव चन्द्रप्रभसूरिणा । पूर्णिमीयकैः कृतायाश्चतुर्दश्या उल्लङघने पूणिमीयका अप्युल्लअधिता भवन्ति । तद्वृथा पूर्णिमाङ्गीकाराभिमानः । यतस्त्वद्गुरु पूणिमीयक: चतुर्दशीयश्च । केवलं पूणिमाचतुर्दश्योविराधकः । वयं तु चतुर्दश्या आराधनेन पूर्णिमाया अप्याराधका एव स्मः ॥ ८ ॥
For Private And Personal Use Only