________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थो विश्रामः
वन्ध्यायाः ? जीवन्मृताया:-जीवन्त्याश्च मृतायाश्च । कस्मात् ?, 'राकासक्रियत्वाक्रियत्वतः' राकायाः क्रियायुक्तत्वात् अक्रियायुक्तत्वाच्च । किमुक्तं भवति-मोक्षरूपस्य फलस्यासाधकत्वेन पूणिमा वन्ध्येव वन्ध्या । सा च पूर्वं क्रियायुक्ततया जीवन्त्यासीत् । साम्प्रतं भ्रष्टत्वेन मृतेति भण्यते । तद्भक्ताः पुरुषा जीवन्मृतवन्ध्याधायका: परिज्ञेयाः। तावत्प्रथमं मतमातृधायको जघन्यस्तस्मादपि जीवद्वन्ध्याधायको जघन्यतरः, तत्तुल्याः पुगतना राकारक्तास्तस्मादपि मृतवन्ध्याधायको जघन्यतमः, तत्तुल्याश्चैतेऽधुनातना राकारक्ता द्रष्टव्याः ।।७।। - पुनरपि गुरोर्गुरुपरम्पराया एवाभावं विकल्पान्तरं वाऽऽवि
र्भावियन्नाह
कि बृहत्पडिक्तवल्लोके, किमाद्या च चतुर्दशी ? । कृता चे राकया तत्तल्लोपे लुप्तव पूर्णिमा ॥८॥
व्याख्या-रङकराजानौ बाल विद्वान्सौ च मर्यादीकृत्य समग्रलोकश्चतुर्दशी किं बृहत्पडिक्तवत् वृद्धस्वाजनकसदृशी मता (?) । यतः पूर्वं पूणिमायास्सद्भावे पूणिमामध्याच्चतुर्दश्या निस्सरणं घटते । ततोऽस्य लघुस्वाजनकपाङक्तेयत्ववत् (?) सङघबाह्यत्वं कथं न दृश्यते ?। चतुर्दशीयकानां बहुतरत्वात् इति चेत् । ततो बहुतरानुमतत्वेन " बहुमणुमयमेअमायरिअं" इति वचनातेषामेव सङघत्वम् । साम्प्रतं तपोवतां चारित्रदर्शनतो वसतिपालकानां सुविहितेत्याख्यादिना च पूर्व चतुर्दशीयकानां बहुतराणामपि चारित्रयुक्तत्वेन सङघत्वमेव । असङघत्वे हि नव्यनिःसृतत्वेन निह नवत्वात् तदा चतुर्दशीयकानां बहुतरत्वं न घटते, पुरातनापुरातननिह नवानां प्रथम मेकाकिनामेव भवनात्, द्रव्यक्षेत्रकाल
For Private And Personal Use Only