________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
कुर्यात्, तदा तदुत्सूत्रानुमतिपातकेन समग्र सङघोपि मिथ्यादृष्टिस्त्वन्मतप्रीतिमांश्च स्यात्, साम्प्रतं पृथक् स्थितस्य सङ्घस्याभावात् । दृश्यते च राकामतपृथक्स्थित एव परम्परागतश्चतुर्दareeroयया अखण्डचारित्रप्राकारः सङ्घसार्वभौमो भवन्निग्रहशिष्टपरिपालनधर्मतत्परः । 'सन्ताने 'त्यादि । पूर्वं पूणिमीयकेष्वेव सन्तिष्ठमानेषु बहूनामाचार्याणां सन्तानानि साम्प्रतं भवेयुः । न च तानि, केवलं चन्द्रप्रभसूरेरेव सन्तानं दृश्यते । यच्च केचिदात्मनां मध्ये समायातप्रस्तावे चन्द्रप्रभसूरिसन्तानिनः आत्मनः परस्परमिति वदन्तोपि मूलशुद्धयन्वेषणविचारे पृष्टाः सन्तो वयमन्यतरसन्तानिन इति वदन्ति । तत्ते वयमन्यतरपितृजाता इति गालि मात्मन्येव ददत उपेक्षणीयाः । 'सन्तानमव्रतं च किं' ता चन्द्रप्रभसूरेस्सन्तानं कथमचारित्रम् ? यतश्चारित्राविनाभाव्यंव तीर्थम् | तीर्थे प्रवर्तमाने सति यत्र तत्र गच्छे नियमेन चारित्र - भावात् । सन्तानचारित्रयोरदर्शनत एते सङ्घबाह्याः सङ्घान्नि:सृता इति बलादापन्नम् || ६ ||
न च चन्द्रप्रभसूरेश्चारित्रमासीत्, किन्तु क्रियामात्रम् । तदपि सन्तानस्य न विद्यते । ततो राकारक्तानां मृतमातृधायकेभ्योप्यधिकतरमज्ञानत्वं प्रदर्शयन्नाह
जीवन्मृताया वन्ध्यायाः, प्राच्याऽप्राच्याः स्तनन्धयाः | राकारकता न कि ? राका - सक्रियत्वाक्रियत्वतः ॥७, 1
व्याख्या- राकारक्ताः- पूणिमानुरागिणः पुरुषाः, वन्ध्याया: स्त्रियाः कथं न स्तनन्धया:- स्तनघायकाः ? अपि तु स्तनधाय एव । किंविशिष्टा: ? ' प्राच्याप्राच्याः प्राच्याश्चन्द्रप्रभसूरिका वर्तमानाः, अप्राच्याः सम्प्रतिकाले वर्तमानाः । कथम्भूताया
For Private And Personal Use Only