________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थो विश्रामः
गुरोरभ्युपगमे गुरोरेव दूषणं दर्शयन्नाह
गुरुस्तस्याऽभवच्चेत् तदुत्सूत्री प्रथमोऽस्तु सः। स्वसदृग् यदभून्नास्य, गुरोर्गुरुपरम्परा ॥३॥ व्याख्या-चेद्-यदि, तस्य चन्द्रप्रभसूरेर्गुरुरभवद्-आसीत्, तत्तस्य गुरुः प्रथमः-आद्यः, उत्सूत्री-पूर्णिमारूपोत्सूत्रप्ररूपकोऽस्तुभवतु । यद्-यस्मात् कारणादस्य चन्द्रप्रभसूरिसम्बन्धिनो गुरोर्गुरुपरम्परा श्रीमहावीरात् प्रभृति तं गुरुं मर्यादीकृत्य गुरुश्रेणिर्नाऽभवत् । किविशिष्टा ? स्वसदृक्-आत्मसदृशी पूर्णिमाप्रतिक्रमणकरणरूपेत्यर्थः ॥३॥
गुरोर्गुरुपरम्परासद्भावेऽन्यमतेष्वपि गुरुपरम्पराऽऽपद्यत इति दूषणं- तदभावे परम्पराच्छेदहेतुं च दर्शयन्नाह
गुरोः परम्पराऽऽसीच्चेत्, तत्साऽस्त्वन्यमतेष्वपि ।
नेति चेत्तन्न किं सर्व-मपि चेत्यादि पौणिमम् ॥४॥ व्याख्या-चेत्-यदि, गुरोश्चन्द्रप्रभसूरिसम्बन्धिनः परम्परागुरुश्रेणिरासीत्-अभूत् । ततस्सा परम्पराऽन्यमतेष्वपि-खरतर-सार्द्धपूणिमीयकाञ्चलिक-त्रिस्तुतिकेष्वपि, अस्तु-भवतु । पञ्चाप्यमूनि मतानि पाश्चात्यानि समग्रजनपदेष्विति प्रसिद्धी सत्यामपि एकस्य मतस्य गुरुपरम्परासद्भावजल्पने शेषमतेष्वपि परम्परा सद्भावजल्पनमापद्यते । आपद्यतां को नाम दोकः । इति चेत्ततो जिनशासनेनापरेण केनचिह्नवितव्यम् । यतो विनाम परस्परविरोधिनां मतानामारोपणे जिनत्वशासनत्वयोमानो भवति । भवतापि सार्द्धपूणिमाऽऽञ्चलिक-क्रिस्तुलितबमात्मनो मतादुत्पन्नमुच्यते । यद्येतद्वचनं सत्यत्वेन महामदभ्यर्थनयाऽऽत्मी
For Private And Personal Use Only