________________
Shri Mahavir Jain Aradhana Kendra
गुरुतत्त्व प्रदीपे
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नियगमविगप्पिअ - चितिएण सच्छंदबुद्धिरइएण । कत्तो पारतहियं, कीरइ गुरुअणुवएसेणं ॥१॥ सोसायरिअकमेण य, जणेण गहिआई सिप्पसत्थाइं । नज्जंति बहुविहाई, न चक्खुमित्ताणुसरिआई ॥ २ ॥ उक्तं च- छट्ठट्ठमदसमदुवालसहि मासद्धमासखमणेहिं । गुरुवयणं अकरंतो, अनंतसंसारिओ होई ॥१॥
५६
'
एवमाचार्यस्य श्रुतमात्रोक्ताङ्गीकाररूपं दूषणमभिधाय श्रुतोक्तत्यागरूपं दूषणान्तरमाह-'श्रुतोक्ताऽऽचरणं त्यजन् कस्य गुरोरनुयोगत इत्यत्रापि सम्बध्यते । कस्यादेशात् श्रुतोक्ताऽऽचरणा तेन त्यक्ता ? | आचरणा चतुर्मासकचतुर्दशी । तदीत्थं विशेषव्याख्यानं परिज्ञेयम् । श्रुतोक्तत्वं चतुर्मासकचतुर्दश्या अप्याढीकितम् । तदुल्लषने श्रुतोक्तोल्लङघनरूपं द्वितीयं दूषणमाविर्भवति ॥ १॥ श्रुतोक्तपूर्णिमा श्रुतोक्तचतुर्मासकचतुर्दशी हेयत्वोपादेयत्वापरिज्ञानद्वारेणाऽऽचार्यस्याऽस्य निर्गुरुत्वं प्रकटयन्नाह
यत्पूर्वोक्त परोक्तयोः, परोक्तो बलवान् विधिः । इति तेमात्र न ज्ञातं, गुरुस्तत्तस्य नाऽभवत् ॥२॥
व्याख्या - पूर्व-प्रथमं, उक्तो विधि: पूर्वोक्तो विधिः, परत:-- पश्चात् उक्तो विधि: परोक्तो विधिः, तयोर्मध्ये परोक्तो विधिर्बलवान् - प्रमाणं । स हि पूर्वोक्तविधिमप्रमाणिकृत्यैव तस्य स्थानेऽवतिष्ठते । सूत्रे चतुर्मासकप्रतिक्रमणं पूणिमायां विधेयमित्युक्तिः पूर्वोक्त विधिस्तस्य यत्वं, 'आचरणाप्यागम' इत्युक्तिः परोक्तो विधिस्तस्योपादेयत्वमित्येतत् तेनाचार्येणाऽत्र - पूर्णिमाङ्गीकारे यन्न ज्ञातं तत्तस्याऽऽचार्यस्य गुरुर्नाभूदित्यनुमीयते ॥ २ ॥
1
For Private And Personal Use Only