________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
यमप्येकं वचनं सत्यत्वेनोररीक्रियतां यत् चन्द्रप्रभसूरिश्चतुर्दशीमध्यानिःसृत इति । अथेत्थं मन्यसे 'नेति चे'दित्यादि । अन्यमतेषु गुरुपरम्परा नासीत् । केवलमेकाकिन्येव गुरुपरम्परा चन्द्रप्रभसूरिसम्बन्धिनो गुरोरासीत् इति चेत् । तत्सर्वमपि-सकलमपि चैत्यप्रभृतिक, पूर्णिमासम्बन्धि किं न दृश्यते ? ।
___ नन्वेतानि चैत्यानि सर्वाण्यप्यास्माकीनानि पुनश्चतुर्दशीयकर्बलाद् गृहीतानि । उच्यते-सम्प्रत्यप्येवंविधा (ध) न्यायदर्शनतः पुरातनराजामात्यजनपदेषु विशिष्टन्यायश्रवणतश्च पूर्व परकीयचैत्यच्छेदनरूपस्यान्यायस्यासम्भव एवापद्यते । अथ पूणिमीयकाचारित्रित्वेन पूणिमापक्षश्रावकैः स्वगृहकार्यव्यग्रतया चतुर्दशीयकेषु चैत्यानि समप्पितानि । ततश्चत्येषु स्वयं धनिकत्वेन स्तुम मुदायेनागमनायते कथं न लभन्ते ? । अथान्यायिनं प्रतिवादिनमधिकृत्याङगीकारोपि प्रवर्तते इति न्यायनैतदप्यस्तु । पुनश्चतुर्दशीयकाः कुतः समुत्पन्नाः?न ज्ञायन्त इति चेत्, तर्हि समग्रासम्बद्धप्रलपितानां मूलशुद्धयन्वेषणे सति न ज्ञायते इत्येतदेवोत्तरमापद्यते ॥४॥
गुरुपरम्पराच्छेदस्यैव हेतुद्वयं दर्शयन्नाह
कि पत्तनमते चैत्य - शासने यूयमप्रमाः ? ।
देशात् पराऽऽर्हताऽऽचार्य-नृपाभ्यां ताडिताश्च कि?॥५॥
व्याख्या-यदि सा राकामतपरम्परा चन्द्रप्रभसूरिसम्बन्धिगुरोरग्रतोप्यासीत्, तदा 'चैत्यशासने' चैत्यं-धारापद्रेदेवगृहं, तत्र सन्तिष्ठमानं यत्त शासनं, तत्र किं यूयं अप्रमा-न प्रमाणम् ? किंविशिष्टे चैत्यशासने ? पत्तनमते-अणहिल्लपुरवास्तव्यपुरुषदत्तमतके, पत्तनस्याऽस्य निष्पेनस्य पञ्च वर्षशतानि सजातानि। तन्निवासिनां प्रधानपुरुषाणां नमानिःसृतराकामतपरिज्ञानेन शासनाक्षरेषु स्वह
For Private And Personal Use Only