________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ततीयो विश्रामः
~
~
-
~
पञ्चानां कुपाक्षिकाणां पङक्ती गणनया न विवक्षितः । प्रथमदिने किमर्थं सङ्घबाह्यो नाभूदिति हेतुद्वयमाह-चैत्यस्थितौ बलिष्ठत्वात्। सङघबाह्यानामिति मर्यादा-यच्चत्येषु स्वमेलापकेन चटितुं न लभन्ते । ततोऽमीषां चैत्यानि विवेकिभिः श्रावकैरात्मीयसामग्रीधशादनुमतानि । अतो निजमेलापकेन चैत्यचटनाय बलिष्ठत्वमभूत्। 'भ्रष्टत्वाच्च' चैत्याश्रयणादमीषां प्रथममेव भ्रष्टत्वमभूत् ।। क्रियाहीनमिदं मतान्तरमग्रतो वृद्धि न यास्यतीत्यभिप्रायेण सुविहितैः सङघबाह्यं न कृतम् । घटनायामिदमप्यायाति । 'इति' हेतुद्वयं मन्यते-सम्भाव्यते ॥१५॥
चैत्यपालादिकाऽत्यर्थ, निषेधं वीक्ष्य यः किल । महानिशीथं तत्याज, गोष्ठामाहिलकैतवात् ॥१६।।
व्याख्या-किलेति श्रूयते । यश्चैत्यपालको महानिशीथंमहानिशीथश्रुतं तत्याज 'चैत्या'दि । चैत्यपालकस्य अत्यर्थं निषेधंयदाह-से भयवं ! जे णं केइ साहू वा साहूणी वा निग्गंथे अणगारे दव्वत्थयं कुज्जा, से णं किमालविज्जा ? । गोयमा ! जे णं केइ साहू वा जाव दव्वत्थयं कुज्जा, से णं अजए इ वा असंजए इ वा अप्पवेरिए इ वा देवभोए इ वा देवच्चगे इ वा जाव णं उम्मग्गपइठिए इ वा दूरुज्झियसीले इ वा कुसीले इ वा सच्छंदयारिए इ वा आल वेज्जा' एवं रूपं, आदिशब्दाद् देवद्रव्यभक्षकस्य अत्यर्थ निषेधं वीक्ष्य-दृष्ट्वा । गोष्ठे'त्यादि । गोष्ठामाहिलस्य सप्तमनिह नवस्य, यत्कतवं-अनेन निह नवेन स्वप्रक्षेपकाणि प्रक्षिप्तानि, अतो वयं महानिशीथं न मन्यामहे इति लक्षणं मिषं, तस्मात् । तत्र 'हवइ मंगल' मिति भण्यते । तथाहि-महानिशीथे त्रिचतुर्थाध्ययनसूत्र'तहेव तयत्थाणुगामियं इक्कारसपयपरिच्छिन्नं तिआलावग
For Private And Personal Use Only