________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
कस्माद्धेतोः ? श्रुतोक्तत्वात् । यद्यत् श्रुतोक्तं वचनं तत्तत्सत्यं । यथा अन्तराणि आत्मप्रत्ययसंविदितानि श्रुतोक्तानि वचनानि सत्यानि तथैतदप्याज्ञासिद्धं वचनं सत्य मेवेत्यर्थः ।। १२-१३ ।। युग्मम् ।।
५०
लोकशास्त्रेषु कुत्राप्युक्ते ऽन्यश्रुतोक्तसत्यवत् । दृष्टान्तोऽयं न दातव्य-स्तेष्वलीकं यतोऽखिलम् ॥१४॥
1
व्याख्या - लोकशास्त्रेषु - वेदस्मृतिपुराणादिषु, कुत्राप्युक्ते - कस्मिन्नपि वचने । अन्यश्रुतोक्तसत्यवद् । अयं दृष्टान्तः । उपलक्षणत्वात् श्रुतोक्तत्वादसौ हेतुश्च न दातव्यः । यतो- यस्मात् कारणात् तेषु शास्त्रेषु, अखिलं - समग्रं वचनं अलोकं कूटम् । हिंसादिसंसक्तपथोपदेशात्, नृशंसदुर्बुद्धिपरिग्रहाच्च । पूर्वापरार्थेषु विरोधसिद्धेश्च, अत एवासर्वविन्मूलतया प्रवृत्तेश्च । परीक्षाक्षोदक्षमानां वचनानां वचनत्वात् । अन्यथोन्मत्तप्रलपितानामपि प्रमाणत्वापत्तेः ।
तदेवं हेतुवादं संस्थाप्य प्रकृतमुच्यते । दिगम्बरमताऽनन्तरं सङ्घबाह्यं यापनीयकमतमुत्पन्नम् । ततो यापनीयकमतादनन्तरं चैत्यपाक्षिकास्समुत्पन्नाः ॥ १४॥
अतस्तन्मतं प्रकटयन्नाह -
निह नवोऽनुपधानी तु, बाह्यो नाऽऽद्य दिनेप्यभूत् । चैत्य स्थितौ बलिष्ठत्वात्, भ्रष्टत्वाच्चेति मन्यते ॥१५॥
*पाख्या - अनुपधानी चैत्यपालको निहूनवः । यदाहमलयगिरिरावश्यकवृत्तौ ' ससेए निह णवा खलु' इत्यत्र - 'खल शब्दोऽत्र विशेषणे, किं विशिनष्टि ?, ये उपधानादितपो न मन्यन्ते ते निहूनवा द्रष्टव्याः ' । आद्यदिने - प्रथमदिनेऽपि बाह्य नाभूत् । अतस्साम्प्रतमपि प्रकटं सघबाह्यो न दृश्यते । अत एक
For Private And Personal Use Only