________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयो विश्रामः
भिनवोऽयमिन्द्रजालिको, यन्मन्त्राऽऽकृष्टा इन्द्रादयोपि देवा आगच्छन्तीति प्रत्यक्षतीर्थकरकालेऽपि वदन्ति । तत्तुल्या माधुनिका हेतुवाददूषका इति ॥१०॥
मागमेऽपि चिछेतु-दृष्टान्तो दृष्टिमागतौ ।
तदुक्त्या तत्र दोषश्च, हेतुवादः क्व ते गतः ? ॥११॥ व्याख्या-अत्र परः प्राह-आगमेऽपि-जैनागमेऽपि, क्वचिंदाज्ञासिद्धे वचने हेतुदृष्टान्तौ दृष्टि नागतो-न दृश्यते इत्यर्थः । तत्राज्ञासिद्ध वचने हेतुदृष्टान्तदानेन दोषभावात् । यदाह- जो हेउवायपक्खंमि हेउओ आगमंमि आगमिओ। .
सो ससमयपन्नवओ, सिद्धान्तविराहओ अन्नो ॥१॥ ततस्ते-तव हेतुवादः क्व गतः ? । इदं कुपाक्षिकोक्तमुपहासवाक्यम् ॥११॥ परोपहासवाक्यस्य सोपहासमुत्तरमाहू
उत्सूत्रसूत्रधारेण, सुसूत्रं सूत्रितं त्वया । यत्तत्र हेतुदृष्टान्तौ, दोषाय व्यावहारिको ॥१२॥ आगमिकौ तु तौ तत्र, न दोषाय च तद्यथा । सत्यमेतत् श्रुतोक्तत्वा-वन्य श्रुतोक्तसत्यवत् ॥१३॥युग्मम् ।।
व्याख्या-अहो कुपाक्षिक ! त्वया उत्सूत्रसूत्रधारेण सुसूत्रं सूत्रितम् । परोपहासोऽयम् । यद्-यस्मात् कारणात् तत्र-आशासि वचने, हेतुदृष्टान्तौ व्यावहारिको-लोकव्यवहारवर्तमानी प्रयुक्ती सन्तौ दोषाय, लोके तयोरसत्त्वाद् । तु-पुनस्तौ-हेतुवृष्टान्ती, आगमिको-आगमसम्बन्धिनौ प्रयुक्तौ सन्तो, तत्राऽऽज्ञासिद्ध वचने न दोषाय । कथं तौ स्यातां ?. इत्याह-सत्यमेतदाज्ञासिद्धं वचनं,
For Private And Personal Use Only