________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्वप्रदीपे
पत्तिमात्रं ताभ्यां (युतं) संयुक्तं तदनुष्ठानं, छिन्नाऽऽगममतंत्रुटितसिद्धान्तमतम् । अत्राऽऽगमस्त्रिविध:- सूत्रतोऽर्थत आचरणातश्च । एकस्य कस्यचिदागमस्य मतमित्यर्थः ॥७॥
यस्य यत्राऽऽग्रहस्तत्र सयुक्ति नयतीति न । यनिनीषतिरुक्ताऽस्मिन् प्रस्तावेऽन्यत्र सूरिभिः ॥ ८ ॥
४८
व्याख्या- परः प्राह-यस्य यत्राऽऽग्रहस्स तत्र युक्ति नयति । उच्यते इति न । यद् - यस्मात् कारणात् सूरिभिराचार्यैरस्मिन्प्रस्तावे स्वगृहीताऽऽग्रहवक्तव्यतासम्बन्धिनि निनीषतिरुक्ता-' निनीषति' रिति क्रिया प्रोक्ता, न 'नयति 'रिति क्रिया प्रोक्ता । क्व ? अन्यत्र 'वक्ष्यमाणसुभाषिते' आग्रही युक्ति नेतुमिच्छति, पुनस्तस्याऽऽग्रहे युक्तिनं याति । आग्रहगमने युक्तेरयुक्तित्वात्, युक्त्ययुक्त्योरन्तरस्याभवनात् । अत्र एव महात्मभिनिनीषतिरुक्ता ॥ ८॥
उक्तं च- आग्रही बत निनीषति युक्ति, तत्र यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य तु युक्ति-यंत्र तत्र मतिरेति निवेशम् ॥ ९ ॥
व्याख्या - स्पष्टः ॥
येषां चित्तेन हेतुः स्यात्, तेषामाभाति पातिनाम् । स्पष्टं त्रिजगदीशोपिः, भगवानिन्द्रजालिकः ॥१०॥
व्याख्या- येषां चित्ते हेतुर्न स्यात्तेषां पातिनां संसारपतनशीलानां चेतसि भगवान् वीतराग इन्द्रजालिक आभाति । किं विशिष्टः ? स्पष्टं प्रकटं यथा भवति, त्रिजगदीशोपि वीत रागत्वसर्वज्ञत्वादिगुणैस्त्रिजगन्नाथोपि । किमुक्तं भवति - त्रिजगन्नाथे वीतरागत्व सर्वज्ञत्वादिकं त्रिजगन्नाथ त्वहेतुमजानन्तः केचिद
For Private And Personal Use Only
.