________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयो विश्रामः
विचारणारहितं शास्त्रोक्तं हेतुः - कारणम् । देवतत्त्व - गुरुतत्त्वधर्मतत्त्वानां सन्देहः कुविचारपथस्थितात् चेतसः पूर्वापरविचारणारहितवचनमात्र निर्णीयमानत्वाद् वा भवतीत्यर्थः । सत्येनैवाऽयमात्मा रज्यते सकलजनपदप्रसिद्धमेतत् । अत्र कुविचार - शास्त्रोक्तमात्रे द्वे कारणे, चित्ततत्त्वाप्रतीतिरेकं कार्यम् । यथा ज्योतिषाऽ मिलने कुविचारशास्त्रोक्तमात्रे द्वे अपि हेतू स्याताम् । वराहमिहिरसम्बन्धिनः सुतविषयिज्योतिषस्य कुविचारितस्य मत्स्यविषयिज्योतिषस्य पूर्वापरविभागाविचारितस्य चाऽमिलनात् ||५||
हेतुर्द्रव्ये यथा साक्षाद्-भावात् द्रव्याणि सन्ति षट् । यवस्ति विश्वे विश्वस्मिन् स्यात् सहेतुकमेव तत् ॥ ६ ॥ व्याख्या - द्रव्ये - धर्मास्तिकाय-अधर्मास्तिकाय - आकाशास्तिकाय - पुद्गलास्तिकाय - जीवास्तिकाय- कालरूपे, हेतुरस्ति । व्यक्तिमाह-यथा षट् द्रव्याणि सन्ति, कस्मात् ? साक्षाद्भावात् - प्रत्यक्षभवनात् । अत्र साक्षाद्भावो हेतुः । सत्तासाधनं कार्यम् । यद्यपि षट्स्वपि द्रव्येष्वनादिसंसिद्धत्वादुत्पत्तिमाश्रित्य निर्हेतुकत्वम् । पुनस्तत्रापि स्वरूपसाधनमाश्रित्य सहेतुकत्वम् । ततो यत्सिद्धं, तदाह - यदस्मिन् विश्वस्मिन् सकले, विश्वे - जगति स्यात्, तत् सर्व्वं सहेतुकमेव । ततो ये हेतुवादं न मन्यन्ते, ते ग्रथिला ज्ञातव्याः । निर्हेतुकचेष्टया समानत्वात् ||६||
"
न श्रूयते श्रुते त्वाद्यं श्रितं श्रुतधरैर्वरैः । हेतुयुक्तियुतं यत्तच्छिनागममतं मतम् ॥७॥
૪૭
व्याख्या - यदनुष्ठानं श्रुते - सिद्धान्ते वर्तमाने न श्रूयते, तुपुनराद्यं - चिरकालायातम् । तथा वरैः - प्रधानः, श्रुतधरैः श्रितम् । तथा हेतुयुक्तियुतम् । हेतु: - अन्वयव्यतिरेकलक्षणो, युक्ति:- उप
For Private And Personal Use Only