________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयो विश्रामः
पणया अज्ञानित्वेन शास्त्रकृतोऽनाप्तत्वमेवानुमीयते । तत-तस्मात् कारणात् हे नग्नाट ? मेऽपि-ममापि नग्नतां-नग्नताव्रतं, अभङगांव्रतभङगरहितां, श्रृणु ॥१४॥ ग्रन्थकारः स्वकीयामाप्तोपदिष्टां नग्नतां षड्भिः श्लोकैदर्शयन्नाह
कश्चित् पूर्णाधिकन्यून-नवपूर्वधरो मुनिः । स्वार्थायाऽऽश्रित्य तां गच्छेद्, गच्छात् सिंह इवैककः ॥१५॥
व्याख्या-कश्चिन्मुनिस्तां नग्नतां जिनकल्पोक्तां आश्रित्य गच्छेत् गच्छाद्-गच्छं परित्यज्य, किमर्थं ?, स्वार्थाय । किंविशिष्ट: ? 'पूर्णे'त्यादि । अधीतसम्पूर्णनवपूर्वोऽधीताधिकनवपूर्वःकिन्यूिनदशपूर्वधर इत्यर्थः, अधीतन्यूननवपूर्वः। इत्थमष्टपूर्वधरस्य दशपूर्वधरादेश्च जिनकल्पाऽऽश्रयणनिषेध उवतः । सिंह इव एककोऽद्वितीयः ।।१५।।
कायोत्सर्गः क्रियाकालं, विनाऽस्मिन् सप्तयामिकः । विहाराऽऽहारनीहारा-स्तृतीयप्रहरे दिवा ॥१६॥ व्याख्या-अस्मिन् जिनकल्पिके कायोत्सर्गः सप्तयामिको भवति । क्रियाकालं विना-प्रतिलेखनाकालं मुक्त्वा, अहोरात्रस्य मध्ये सप्त प्रहरान् कायोत्सर्गस्थित एवाऽऽस्तेऽसौ इत्यर्थः । तथाऽस्य महात्मनो दिवा-दिवसे, तृतीयप्रहरस्य मध्ये विहार आहारो नीहारश्च भवति ॥१६॥
खगाद्यवाञ्छितत्यज्य-मानभिक्षाग्रही च यः ।
अलाभे तु निराहारः, षण्मासानवतिष्ठते ॥१७॥ व्याख्या-यो महात्मा 'खगे'त्यादि। खगैः - पक्षिभिःकाकाद्यैरादिशब्दात् श्वानादिभिर्या अवाञ्छिता-अनभिलषिता,
For Private And Personal Use Only