________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
ww.narwwwmorror
vvvv wwman
त्यज्यमाना च भिक्षा, तस्या ग्रहः - आदानं विद्यते यस्य स । उत्तरार्द्ध स्पष्टम् ॥१७॥
मार्गभेदी न सिहेऽपि, शीतवाताऽऽतपाजितः ।
सप्तोत्कृष्टत एकत्र, वसेयुमानिनो मिथः ॥१८॥ व्याख्या-पूर्वार्द्ध स्पष्टं । 'सप्ते'त्यादि । सप्त जिनकल्पिका उत्कृष्टत एकत्र स्थाने वसन्ति । तथास्वभावादेवाधिका एते न भवन्ति, इत्यल्पत्वममीषां निवेदितं । किविशिष्टाः ?, मिथः - परस्परं, मौनिनो-मौनमुद्रावलम्बिनः ।।१८।।
एवं समर्थे त्यक्तान्य-कार्येऽस्मिन्नग्नतां ददौ ।
प्रभावात् संवृतावाच्यः, स्वयं तु त्रिजगत्प्रभुः ॥१९॥
व्याख्या-स्पष्ट: । नवरं-समर्थे-जिनकल्पपालनक्षमे । त्यक्तगच्छादिकार्यत्वेन स्त्रीप्रचाराभावात् ।।१९॥
मुनेभिक्षागतस्याय-वाच्ये दृष्टिः क्वचिन्मिता । नृणां स्त्रीणां व्रजेद् या सा,ऽप्यदुष्टा शुभकालतः ॥२०॥
व्याख्या-मुनेजिनकल्पिकस्य भिक्षागतस्यापि अवाच्येलिङगे क्वचिन्मिता-स्तोका, नृणां स्त्रीणां या दृष्टिः व्रजेत्-गच्छेत्, सापि अदुष्टा-अविरोधिनी । कस्मात् ?, शुभकालतः । पूर्व हि कालस्वभावादेव पुरुषाणां चेतसि दिगम्बरलिङगदर्शने अधुनातनयतिलिङगदर्शने (अधुनातनयतिलिङगदेशादि) पुरुषद्वेषवन्न प्रायो द्वेषः । अन्यथा न्यायघण्टाग्लङकृतरामराज्यादेरसम्भवात् । न चाधुनातनविप्लुतस्त्रीरागवत् पुरातनकाले स्त्रीणां चेतसि प्रायो रागः । अन्यथा सीतादिमहासतीनामसम्भवात् ॥२०॥
For Private And Personal Use Only