________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीप
शास्त्रकृता शास्त्रे मार्गः खरतर एव प्ररूपणीयो। यथा तमनुधावन्ति लोका: । अतस्तथाऽऽस्माकीनशास्त्रकृता शास्त्र नग्नत्वं प्ररूपितं, यथा वस्त्रादिपरिग्रहनिमग्नत्वेन यते: इलथत्वं न भवेदिति परोक्तमाक्षिपन्नाह
स्वच्छास्त्रमश्लथत्वाया-ऽवह न्यादिः कोऽपि कि न ते ? । किञ्चोक्तः श्रावकोऽशक्ते-नोक्तं शक्यं यतेः किमु ?॥१३॥
व्याख्या-यदि त्वच्छास्त्रं अश्लथत्वाय-खरतरत्वाय, ततः किं अवह न्यादिः - वह न्यम्बुकुण्डिकापिच्छच्छात्रतृणपटादिपरिग्रहविरहितस्ते-तव कोऽपि किं न विद्यते ? समग्रनग्नाटानां निर्वहणाभावतो बह न्यादिपरिग्रहनिमग्नत्वात् । तथा त्वच्छास्त्रे श्रावक:श्रावकधर्मः किमुक्तः ?, यतिधर्मापेक्षया श्रावकधर्मस्य श्लथत्वात् । श्रावकधर्मप्ररूपणया त्वच्छास्त्रकृतः प्रतिज्ञाभ्रष्टत्वात् । 'अशक्ते' रिति । यतिधर्मकरणशक्तेरभावात् श्रावकस्य शक्यः श्रावकधर्म उक्तः? इति चेत् । ततो यतेः शक्यं-शक्यानुष्ठानं किमु नोक्तं ? यो यतिधर्मः कर्तुं शक्यते, स कथं त्वच्छास्त्रकृता न प्ररूपितः ? इति ॥१३॥
विलग्नोऽग्निज्वलंस्तेऽसौ, शक्यस्यानुक्तितो ह्यतः ।
नाप्तस्त्वच्छास्त्रकृत्तन्मे-त्यभङगां नग्नतां श्रृणु ॥१४॥ व्याख्या-शक्यस्य-शक्यानुष्ठानस्य चतुर्दशोपकरणरूपस्यानुक्तितः - अप्ररूपणात्, हि-र्यस्मात् कारणात् असौ ज्वलनग्निःशकटिकाग्निः, . अम्बकुण्डिकापिच्छच्छात्रतृणपटादिपरिग्रहोऽपि हिंसाहेतुतया चारित्रज्वालनादग्निरेव परिज्ञेयोऽत्र, ते-तव, विलग्नः 'ज्वलन्नग्निविलग्न' इति लोकाऽभाणकोऽपि सत्यस्तवाऽभूदिति । अतो-अस्मात् कारणात् त्वच्छास्त्रकृत् 'नाप्तः' अशक्यानुष्ठानप्ररू
For Private And Personal Use Only