________________
Shri Mahavir Jain Aradhana Kendra
द्वितीयो विश्रामः
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या - शिवभूतिर्न ग्नाटमताकर्षकः प्रथमो नग्नाटो, यथायेन प्रकारेण सूत्रात्-सिद्धान्तान्नग्नत्वं शिश्रिये हठाद्-अभिनिवेशात् । असौ हि सिद्धान्ते जिनकल्पाऽऽचारं निशम्य गुरुगृहीतरत्नकम्बलाभिनिविष्टो गुरुमवादीत् कथमसौ जिनकल्पोऽधुना न विधीयते ? | गुरुराह - विच्छिन्नोऽधुना ।
1
२९
यतः - मणपरमोहिपुलाए, आहारगखवगउवसमे कप्पे । संजमतिय केवलसिज्ज्ञणा य जंबुमि वुच्छिन्ना ॥ १ ॥ ( विशेषाव ० ) इति गुरुक्तं सूत्रान्तरमनालोच्य 'यूयं निस्सत्वाः ततो व्यवच्छिन्न इति ब्रूथ | अहं तु जिनकल्पमङ्गीकरिष्ये' इत्युक्त्वा नग्नतां श्रितवान् । तथा तेन प्रकारेण चतुर्मासकपूर्णिमामप्यसौ न शिश्रिये, किन्तु सर्वदाऽऽदृतां चतुर्दशीमेव श्रितवान् । ततोऽनेन गुणेन चन्द्रप्रभाचार्यादसी अधिक इत्यर्थः । इति चतुर्दश्याः प्रामाण्यमुपदर्शितम् । यदि शिवभूत्याश्रितो जिनकल्पोऽप्रमाणं ततः चन्द्रप्रभाचार्यश्रिता पूर्णिमाप्यप्रमाणं ' आयरणा वि हु आणा' इति सूत्रान्तरमनालोच्य सूत्रदृष्टपूर्णिमायाः श्रितत्वात् ॥ ११॥
नग्नत्वं चित्तसामर्थ्या-दिति चेत्तद् भवत्वदः ।
वेश्यान्तस्तु कुलस्त्रीषु, पापाय स्वापवत् तव ॥ १२ ॥ व्याख्या–नग्नत्वमस्माकं 'चित्तसामर्थ्यात् ' नग्नत्वेन मदनपराभवसमर्थ मास्माकीनं मानसमुपलक्ष्यते इति चेत् । ततः तत्तस्मात् कारणाददो नग्नत्वं भवतां भवतु, तु-पुनर्वेश्यान्तःपण्याङ्गनानां मध्ये, नग्नो भवेत्यर्थः । किमित्याह यतस्तव नग्नत्वं कुलस्त्रीणां मध्ये पापाय क इव ?, स्वापवत् । यथा कुलस्त्रिया सममेकत्र शयनं निर्विकारमनसोऽपि तव लोकविरुद्धत्वात् स्त्रियो विकारहेतुत्वेन च पापाय तथा नग्नत्वमपि ॥ १२ ॥
For Private And Personal Use Only
-