________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
अगस्य यथा नाम्ना - लोकप्रसिद्धेन नामधेयेन, मिथ: - परस्परं, यतिस्त्रियोरुच्चारो- जल्पनं किं नाभूत् ? । गुह्येऽपि अद्रष्टव्यता:चिन्तनीयतयोर्मर्यादयोर्बलवत्त्वात् 1 सकललोकपालनीयत्वेन शास्त्रोक्तत्वेन च ।
उक्तं च- ' गुज्झोरुवयणकक्खोरु अंतरे तह थणंतरे दठ्ठे । साहरइतओ दिट्ठि, नय बंधई दिट्ठिए दिट्ठि || १ || ( उप० माला) तथा च - विषस्य विषयाणां च दूरमत्यन्तमन्तरं ।
२८
उपभुक्तं विषं हन्ति, विषयाः स्मरणादपि ॥२॥ नाममर्यादायास्तु अनियतत्वात् यदेकस्मिन् देशे गुह्यस्य नाम वक्तुं निषिद्धं, तदपरस्मिन् व्यवहृतं । तव (त) आद्य मर्यादायलोपे नाममर्यादापालनस्याकिञ्चित्करत्वात् ||९||
गुरुदेवमुखोत्कण्ठाऽऽयतैलिङगं धिगीक्ष्यते ।
अञ्चल स्पर्द्धया स्वामी, हो ! नग्नत्वाद् विडम्बितः ॥ १० ॥ व्याख्या - गुरुदेवयोर्मुखं वयं विलोकयिष्याम इत्युकण्ठया आयात र्जनैः । मठे देवगृहे च गुरुदेवयोलिङ्गं ईक्ष्यते - दृश्यते, धिगिति खेदे, महत्यविवेकितेयं । तथा स्वामी - वीतरागो, ही इति खेदे, नग्नत्वात् - नग्नप्रतिमाकरणेन विडम्बितः । कया ? अञ्चल - स्पर्द्धया । कथानक । दवसेयमेतत् । तच्चेदं - श्री उज्जयन्तसम्बन्धिदिगम्बरविवाद विजयानन्तरं श्रीसङ्घपादैः स्वबिम्बोपलक्षणार्थ पाश्चात्यानां विवादरक्षणाय च बिम्बेष्वञ्चलः कारितः । अञ्चल स्पर्द्धया बिम्बेषु दिगम्बरैलिङगस्य प्रकटावयवाश्चक्रिरे तद्दिनादूर्ध्वमुभयोरपि बिम्बानि सदृशान्येवाऽऽसन् ॥ १० ॥
शिवभूतिर्यथा सूत्रात्, नग्नत्वं शिश्रिये हठात् । सूत्रान्तरमनालोच्य न तथा पूर्णिमामपि ॥११॥
For Private And Personal Use Only