________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
द्वितीय विश्रामः
न च परिग्रहं विना स्थातुं शक्ष्यसि । बालग्रथिलप्रलपितमिव तव
वचनमिति ||७||
Acharya Shri Kailassagarsuri Gyanmandir
अवाच्यं यदचिन्त्यं तत्, तच्चाद्रष्टव्यमेव तत् । अज्ञानाः पशुधर्मास्ते, सुस्त्रीणां वर्शयन्ति ये ॥ ८ ॥
}
व्याख्या - यत् पुरुष चिह, नप्रभृतिकं अवाच्यं - लिङ्गोपस्थादिकं प्रकटनाम्ना वक्तुमयोग्यं भवतोऽपि सम्मतत्वात्, तद् अचिन्त्यं - चेतसि चिन्तनायोग्यं विकारफलत्वात्तच्चिन्तनस्य । न केवलं तदचिन्त्यं, अद्रष्टव्यमेव दृष्टुमयोग्यं विकारफलत्वादेव ।
अत्राहुर्नग्नाटा:- अस्मल्लिङ्गदर्शनेन वनितानां चेतसि विकारो न स्यात् । असंवृतलिङ्गस्य वैरूप्यावलोकनेन गतभ्रमत्वात् ।
उक्तं च- ' संवृतान्येव रम्याणि शरीराणि मनांसि च ' । उच्यते - त्वल्लिङ्गदर्शनेन विरक्तवृद्धस्त्रीणां पुरुषाणां च चेतसि विकारो न स्यात् । यौवनमदनाऽऽक्रान्तवनितानां चेतसि विकारवृद्धेः, निरावरणयोषिति पुरुषविकारवन्निरावरणपुरुषेऽपि योषिद्विकारसम्भवात् 'नग्नां दृष्ट्वा श्रद्धा लग्ने' ति लोकाभाणकेन सकलविश्वानुभवतः सिद्धमेतत् । ततो ये नग्नाटा: पुलिङ्गंसुस्त्रीणां कुलस्त्रीणां दर्शयन्ति, ते अज्ञानाः पशुधर्मा अव सातव्याः । यथा पशवोऽसंवृतगुह्यास्तथैतेऽपि ॥८॥
,
--
अपास्ता यदि मर्यादा, द्रष्टव्याऽचिन्तनीययोः । अवाच्यस्य यथा नाम्ना, तदुच्चारो न किं मिथः ? ॥९॥ व्याख्या - यदि त्वदीये अद्रष्टव्यस्य अचिन्तनीयस्य च मर्यादा अपास्ता - निराकृता, अद्रष्टव्यमचिन्तनीयं च चेत् त्वदीयं लिङ्गं कुलस्त्रियः पश्यन्ति चिन्तयन्ति चेत्यर्थः । ततोऽवाच्यस्य त्वल्लि
For Private And Personal Use Only