________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
ख्यानं विधाय क्षुधाद्युदये भोजनादिकरणमुचितं तावकोपासकानाम् । न चैतदस्ति, ततः किमभूत् ? इत्याह श्राद्धो भवद्भूयोऽपि वृद्धः प्रसज्यते, कस्माद् ? व्रताभङ्गात् । श्राद्धानां यथा गृहीतव्रतपालनेन भग्नव्रतेभ्यो युष्मद्भूयो वृद्धत्वं युक्तमेव ॥ ६ ॥
'२६
अल्पाऽऽरम्भेभ्योऽस्मद्भ्यो बहु वारम्भाणां श्रावकाणां कथं वृद्धत्वं ? इति पराऽऽशङ्कां परप्रतिज्ञां चाक्षिपन्नाह -
त्वं च्युताविरतः स्वल्पा- रम्भोऽप्यग्रन्थताव्रते । मुदे प्रतिज्ञाऽऽघाऽऽत्व, चेत्तत्तेऽस्तु भवास्थितौ ॥७॥
ब्याख्या-त्वं स्वल्पारम्भोऽपि गृहस्येभ्यः 'च्युताविरत: ' च्युतचासो अविरतश्च पञ्चमहाव्रतरूपभूधरशिखराच्च्युतः पतितः, व्रतभङ्गानन्तरं कस्यचिन्नियमस्थानादानादविरतः । ततो देशविरतेभ्यः श्रावकेम्योऽगृहीतनियमोऽविरतः श्रावको जघन्यः । ततोऽपि भग्ननियमानन्तरं अगृहीतनियमत्वेनाविरतश्रावको जघन्यतरः । ततोऽपि भग्नपञ्चमहाव्रतानन्तरं भूमित्रयमपरित्यज्या गृहीतनियमत्वेन अविरतो जघन्यतमस्स एव च्युताविरतः । एवंरूपात्त्वत्तः श्रावको वृद्ध एव । तथा अग्रन्थताव्रते - सर्वसङ्गपरित्यागलक्षणे महाव्रते, आढया-गाढतरा, प्रतिज्ञा - तन्तुमात्रमपि परिग्रहं न धारयामीतिलक्षणा, आत्तैव- गृहीतव, न पालिता मुदे - हर्षाय ते तव विद्यते इति चेत्ततो भवास्थितौ संसारत्यागे गाढा प्रतिज्ञा संसारे क्षणमपि न स्थास्यामीतिलक्षणा अस्तु भवतु । किमुक्तं भवति - गाढप्रतिज्ञायाः पालनफलत्वात् । तव पुनर्निर्वहणाभावेपि गाढगृहीतप्रतिज्ञयैव प्रमोदस्ततोऽधुनैव मोक्षे यास्यामीति प्रतिज्ञामपि गृहाण | गाढत्वे प्रमोदजनकत्वे निरवधित्वादस्याः, तत्कालं न च मोक्षं यास्यसि ।
For Private And Personal Use Only