SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो विश्काया Amravinawwws प्रायश्चित्तं न ते सङगा-दस्माद्धङगस्सकृन्न यत् । नातिचारोऽपवादो न, सदा भडगो व्रतेष्वसौ ॥५॥ व्याख्या-ते-तव, असाध्यव्याधेः प्रतीकारवत् प्रायश्चित्तं न स्यात् । कुतः ? इत्याह-प्रायश्चित्तं हि सकृद्भङगस्य अतिचारस्य वाऽपवादस्य वा भवेत् । न तावत् तवाऽस्मात्सङात्-परिग्रहात् व्रतेषु सकृद्भङगः, स हि सकृदेकवारं व्रतभङगतोऽपुनःक्रियान्वितपरिणामस्य स्यात् । तथास्मात् सङगात् तव व्रतेष्वतिचारो न, स हि अनाभोगकृतो भङगाभङगरूपो वा स्यात् । तथा अस्मात् सङगाद् व्रतेष्वपवादो न, स हि गुरुलाघवालोचनया कदाचित्कारणे स्यात् । ततस्तव कुतः प्रायश्चित्तं ? केवलं व्रतेषु-पञ्चसु महावतेषु, असौ-प्रत्यक्षोपलक्षमाणस्सदा भङगः, अपुनःक्रियान्वितपरिणामाऽभावेनाहर्निशमासेवनात् । गुरुलाघवालोचनविरहितानामाभोगवतां सदा भग्नव्रतानां भवतां किं नाम प्रायश्चित्तं ? केवलं वृत्तभङगात् पातकमेवेत्यर्थः । अनाप्तोपदिष्टाऽशक्यानुष्ठानाङगीकारफलमेतत् ।।५।। इत्थमशक्यानुष्ठानस्याङगीकारभङगौ तव बलादापन्नौ । ततो यतिधर्मपृष्ठलग्नत्वादुपासकधर्मस्यातस्त्वदुपासकस्य देशतस्तौ किं न स्यातां ? इति पृच्छतः श्राद्धस्य वृद्धत्वं दर्शयश्चाह कि नाऽशक्यवताऽऽदान-भङगौ श्राद्धेऽनुगामिनि ? । व्रताऽभङगाद् भवद्भयोऽपि, वृद्धः श्राद्धःप्रसज्यते ॥६॥ व्याख्या-यदि युष्माभिस्सदा भङ्गोऽपि तत्त्वबुद्धयाऽङ्गीकृतः, ततोऽनुगामिनि पृष्ठलग्ने श्राद्धे-उपासके, अशक्यव्रताऽऽदानभङ्गो किं न स्याताम् ? अशक्यं कर्तुमशक्यं यद् व्रतं-नियमस्तस्यादानंग्रहणं भङ्गश्च । किमुक्तं भवति-अशक्तौ सत्यां उपवासादिप्रत्या For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy