________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
२४
A
rran
दैगम्बरपिण्डमाश्रित्य सदा दूषितत्वात् । स कश्चित्कालो नास्ति यस्मिन्नसौ पिण्डः शुद्धो भवेदित्यर्थः । तथा कुतो भावस्य शुद्धिः ? भोक्तुः सम्पूर्णाहारग्रहणे निरपेक्षतया अल्पद्धि कस्य दातुराहारदाने सापेक्षतया उभयोरपि क्षुद्वेदनोपशमाभवनभयेन चाहारशुद्धयन्वेषणापरिणामाभावेन दूषितत्वात् । क्षुद्वेदनोपशमनाभवनभयस्य भाजनवादनेनापि सिद्धत्वात्। न च महद्धिकाऽऽवासे शुद्धेस्सम्भवः, सर्वत्र सर्वदा त्रिदण्डोत्कालितमुष्णोदकं सौवीरं च विना जलशुद्धेरभावात् । यतेराचीनान्तरालाल्पद्धिकगृहोल्लङघनं पुण्यान्तरायभवनेन महद्धिकाऽऽवासे गमनस्य महादोषदूषितत्वात् । तदित्थं यतिधर्मसाराहारशुद्धेरभावेन कुतोऽमीषां सत्पथः ? ॥३॥ सचेलधर्म स्थापयन्नाह
त्रस्तास्सुसङगतस्सङगे, हिले वान्ते च येऽपतन ।
वह न्यम्बु कुण्डिकापिच्छ-च्छात्रतृणपटादिके ॥४॥ व्याख्या-ये दिगम्बराः ‘सुसङगतः' सुष्ठुः - शोभनो, निरवद्यत्वेन यस्सङगश्चतुर्दशोपकरणरूपः परिग्रहस्तस्मात् अस्ता:नष्टाः, अपतन् । क्व ? सङगे, कथम्भूते ? हिंस्र-जन्तुघालकृति, वान्ते-सर्वसावद्ययोगप्रत्याख्यानेन शास्त्रानुक्तत्वेन वोत्सृष्टे, कस्मिन् सङगे ? 'वन्हि' इत्यादि । वन्हिः-उपासककारितशकटिकाग्निः अम्बु-कमण्डलुजलं, कुण्डिका-कमण्डलुः, पिच्छं-निषिद्धत्रसाङगमयूरपिच्छनिष्पन्नपिच्छिका, छात्रा-ग्रासोपजीविन उपचारकाः, तृणपट्टः - सद्दरिका, आदिशब्दान्मठासनादिपरिग्रहः । तस्मिन्, 'निपानानष्टा धेनु: कूपे पतिते 'ति लोकाऽऽभाणकस्सत्यो विहित एभिरित्यर्थः ॥४॥
वयं परिग्रहस्यास्य प्रायश्चित्तं गृहीम इत्येभिः कृतमुत्तरमुत्थापयन्नाह
For Private And Personal Use Only