________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयो विश्रामः
"
अभ्युपगम्य वा ब्रूमः 'मिथ्यात्वे' त्यादि । चः समुच्चये । मिथ्यात्ववत्मिथ्यात्वमिव ते तव, आद्यत्वे सति लोकोक्त्याऽपि लोकवाक्येनाऽपि, न सत्पथः सन्मार्गो, विद्यते । किमुक्तं भवति यथा हरिहरब्रह्मप्रभृतिकं मिथ्यात्वं लोकेन सत्पथतयाङ्गीकृतं, तथा न त्वं । यदि लोकस्य चेतसि त्वदीयमाद्यत्वं विद्यते, ततः कथं लोकोऽयं त्वन्मार्गं नाङ्गीकुरुते ? गडरिकाप्रवाहेण त्वदाद्यत्वं वदतीत्यर्थः । अथवा यथा मिथ्यात्वस्य लोकोक्त्याऽप्याद्यत्वे सति सत्पथो नास्ति । तवाऽपि सम्मतमेतत्, तथा भवतोऽपि न सत्पथः । तद् वृथाऽऽद्यत्वाभिमानः । न ह्याद्यत्वमेव सत्पथत्वे हेतुः । य एव विचारे क्षोदक्षमस्स एव सत्पथ इति सिद्धमेतत् ||२||
अमीषां सत्पथाभावं दर्शयन्नाह -
,
पिण्डशुद्धिः कुतस्तेषां द्रव्यक्षेत्रादितोऽत्र यैः । त्यक्त्वा माधुकरीं वृत्ति, श्रितमेकत्र भोजनम् ||३|| व्याख्या - तेषां दिगम्बराणां, कुतः - कस्मात् पक्षात् ? न कुतश्चिदित्यर्थः । पिण्डशुद्धि:- आहारशुद्धिरत्र - जिनशासने, कस्मात् ? या प्रोक्ता इत्याह- द्रव्यक्षेत्रादितो द्रव्यक्षेत्र कालभावतः । यैर्नग्नाटैमधुकरीं वृत्ति- मधुकरस्येवानियतरूपां
२३
"
>
जहा दुमस्स पुप्फेसु, भमरो आवियइ रसं णय पुप्फं किलामेइ, सो य पिणेइ अप्पयं' ||१|| ( दशवे ० ) इत्यादिसूत्रोक्तां त्यक्त्वा परित्यज्य एकत्र - एकस्मिन्नेव गृहे भोजनं श्रितं । एकस्मिन्नेव गृहे भुञ्जानानां कुलो द्रव्यस्य शुद्धि: ?, आधाकर्म पश्चात्कर्मादिदोषदूषितत्वात् । तथा कुतः क्षेत्रस्य शुद्धि: ?, भोक्तृलोचनाऽगोचरक्षेत्र स्थितवस्त्वानयने दातृपादोपमदितजन्तुसन्तानदोषदूषितत्वात् । तथा कुतः कालस्य शुद्धि: ?, उत्सर्गतो
"
For Private And Personal Use Only