________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
तर्कग्रन्थेऽपि नग्नाटादि नाम प्रोक्तं । प्रमाणग्रन्थेषु जैनदर्शनाक्षेपे नग्नाटो दिगम्बरः क्षपणक इति नाम श्रूयते इत्यर्थः । अतोअस्मात् कारणात्, जने - लोके, नग्ना-दिगम्बराः पाखण्डिनोऽपि आद्या अभूवन् । जनैः प्रमाणग्रन्थानुसारेणाऽऽद्या इति नाम | प्रदत्तमित्यर्थः । दिगम्बराणां कृत्रिममाद्यत्वं सिद्धमिति ॥ १ ॥
प्राक् श्लोकोक्तस्य कृत्रिमाऽऽद्यत्वस्य स्थापकं प्रत्यक्षप्रमाणं दर्शयन् लोकाऽऽद्यत्वं चोत्थापयन्नाह -
२२
प्रमा शत्रुञ्जये भुक्तिः, स्थानं चैतत्तलाट्टिका । मिथ्यात्ववच्च लोकोक्त्या -ऽप्याद्यत्वे सत्पथो न ते ॥ २ ॥
व्याख्या - दिगम्बराणां कृत्रिमाऽऽद्यत्वे श्रीश्रमणसङ्घस्याकृत्रिमाऽऽद्यत्वे च श्रीशत्रुञ्जये तदुपलक्षिते श्री उज्जयन्ते च तच्छृङ्गत्वादस्य भुक्तिः - आयत्तता, प्रमा-प्रमाणं, अक्षरादिभ्योऽपि भुक्तेर्बलीयस्त्वात् । महातीर्थद्वयरयास्य बिम्बाञ्चलपुण्डरीकप्रतिमावेष करणवागदेरायत्ततया श्रीश्रमणसङ्घपादानामेवाद्यत्वं । न केवलं शत्रुञ्जये भुक्तिः प्रमा, स्थानं च नगराख्यं महास्थानं प्रमाणं, सकलजनपदप्रसिद्धाऽऽद्यत्वस्य । स्थानस्यास्य तालानिवेशे श्वेताम्बरीयप्रासादद्वयस्यैव भवनात् । नहि शालातालानिवेश विना स्थाननिवेश: । तालाशब्देन जिनभवनं लभ्यते ।
यदाह-' शाला तु ब्रह्मशाला स्यात्, ताला तु जिनमन्दिरम् । उभयोर्यत्र संयोगस्तद्धि स्थानं प्रकीर्तितम् ॥ १॥
किविशिष्टं स्थानं ?, 'एतत्तलाट्टिका' एतस्य महातीर्थस्य तलाट्टिका - तलहट्टिका । अस्मिन् महातीर्थे हि पञ्चाशद्योजनमूलविस्तृते चटितो ( तात् ) क्षितेः प्राक् स्थानस्यास्य तलहट्टिकात्वेन प्रसिद्धेस्सम्भवाच्च । परितोऽन्यत्र सर्वत्र समुद्रस्यैव निकटवत्तित्वात् ।
For Private And Personal Use Only