________________
Shri Mahavir Jain Aradhana Kendra
सप्तमो विश्रामः
www.kobatirth.org
1
Acharya Shri Kailassagarsuri Gyanmandir
1
युष्माभिस्तस्याः पूजानिषेधः कृतस्तया युष्माकं स्वस्वामिनो भवने मिलितानां समागमनं निषिद्धम् । खरतरानाश्रित्य पूजानिषेधोवीतरागपूजा निषेधो द्रष्टव्यः । अन्यतरेषामपि भगवदाज्ञात्रतिकूलानां सम्यग्दृष्टयो देवा दण्डं कुर्वन्त्येव । अत्राप्यास्माकोना पूजा भगवत्प्रणीत साधमिवात्सल्येऽन्तर्भवति, तन्निषेधे भगवदाज्ञा निषिद्धेत्यभिप्रायेण न स्वपूजा तृष्णया । चतुर्णां कुपाक्षिकाणां सम्यग् - दृष्टिभिर्देवैर्दण्डो विहितः । स्वपूजातृष्णया हि सम्यक्त्वहानि: स्यात् । श्रावका अपि शासनव्यवस्थास्थापनायौचित्यसङ्केता वीहन्ते, न स्वाभिमानपूरणाय, तेषामित्यमेव श्रावकत्वं स्यात् ||२६||
J
यद्दद्यात् कुर्मात रुष्टा, न चपेटां तु देव्यदः । जनेऽप्युक्तं न धोस्तत्ते, सावें तीर्थे श्रुते गुरी ( ? ) ॥२७॥ स्पष्टः यश्चाविघ्नस्तवाऽन्यत्र स पापस्थैर्यकारणम् ।
वेवैः कृतश्चेत्ततेऽपि निह, नवास्त्वन्मतोद्भवाः ॥२८॥ व्याख्या - अन्यत्र लोकमध्ये यस्तवाऽविघ्नो विघ्नाभावो दृश्यते । स तव 'पापस्थैर्य कारणं' पापस्योत्सूत्रप्ररूपणास्य, स्थैर्यं - स्थिरता, तस्य कारणं हेतुस्ततः स विघ्न एंव मन्तव्यः । यतः पापकर्मणि प्रवृत्तानां यो विघ्नस्स पापकर्माकरणत्वेन परमार्थतो विघ्नाभाव एव मन्तव्यः । यदाह - 'शुभोदय वैकल्य-मपि पापेषु कर्मसु । [ वीतरागस्तव: ] चेद्यदि सः अविघ्नो देवैर्युष्माकं कृतः । यतो युष्माकमप्यविसंवादिस्वप्नान्तरादि श्रूयते, मासक्षपणनिर्वहणादि दृश्यते च । अतस्तैः कृता निर्विघ्नतापि घटते । तत्तेऽपि देवा निवास्त्वया ज्ञातव्यास्तेषां साहाय्यं सम्यक्त्वकारि न स्यात् । किविशिष्टास्ते ?, त्वन्मतोद्भवाः ये त्रिस्तुतिका विपद्य देवयोनिषूत्पद्यन्ते तेषामनुलग्नपूर्वभवसंस्कारेण ||२८||
-
१२७
For Private And Personal Use Only