________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
राजश्रीरूपचन्द्रप्रभृतयः, उक्तं च-'षट्भेदभाषाकविचक्रवर्ती, षटतर्क सम्पर्कविशुद्धबुद्धिः। अपूर्वचन्द्राख्यनरेन्द्रपूज्यो, भट्टारकः श्रीजिन भद्रसूरिः ॥१॥ अमात्या महं श्रीबाहडदेव महं श्रीवस्तुपालश्रीतेजपाल-साधुश्रीपेथड-साधुश्रीरत्नसिंहप्रभृतयोऽधुना-वर्तमानकाले, तुर्यस्तुत्या तुर्यस्तुतिबहुमानेन भं:श्रीवयजलप्रभृतयश्च शासनप्रभावका अभूवन् । इहलोके तवाप्येतेषामेवावदातानि प्रत्यक्षाणि । अमीषामवदातानुमोदना तु परलोकेऽपि तवाध्यक्ष इव बभूव इति चतुःस्तुतिकानां भवद्वयस्यापि फलस्य प्रदर्शनं तवाभूदिति । सूचनात् सूत्रस्येत्यत्र स्तुतिग्रहणेन कायोत्सर्गग्रहणमपि द्रष्टव्यम् । तथात्र स्तुतिशब्दो न नमस्कारवाचकः, अन्यत्रापि 'नत्वा स्तुत्वा पूजयित्वा स्नानं कृत्वा जिनेश्वर' इत्यादावस्य पृथक्त्वदर्शनात्, "आमूलालोलधूली" इत्यादिषु नम इत्यक्षराणामदर्शनाच्च ।।२५॥
देवतोपेक्षितः पूजा-निषेधाद्दण्ड एषसः ।
या चैत्मे चतुर्मेलो, युष्माकं स्वकुबुद्धितः ॥२६॥ व्याख्या-युष्माकं स एष सङधकृतो दण्डो दृश्यते । यत् चैत्येजिनभवने. युष्माकं चतुर्मेलश्चतुर्णा व्रतिव्रतिनीश्रावकश्राविकाणां मेलो-मिलनं, न भवति । कस्याः ? 'स्वकुबुद्धितः' । स्वस्याल्मनः, कुत्सिता बुद्धिस्तस्याः । सघाऽऽज्ञाभङ्गलक्षणया स्वकुबुद्धया हि कुपाक्षिका मिलितास्सन्तस्सङघाच्चैत्यप्रपाटी विधातुं न लभन्ते । किविशिष्टो दण्डो ?, देवतोपेक्षितो देवताया-शासन-देवतया उपेक्षितः । शासनदेवता हि प्रष्टा सती तां काञ्चित्सुमति ददाति यमा कस्मिंश्चिद्धर्मकार्य स्खलना न. स्यात्। कस्मात् ?, पूजानिषेधात् । पूजानिषेधरूपं दूषणं पञ्चानामपि कुपाक्षिकाणां समानं द्रष्टव्यम् । अन्यदपि दूषणं शास्त्रेऽस्मिन् यदेकत्र स्थान एकस्य कुपाक्षिकस्योक्त, तद्यथासम्भवं सर्वेषामपि योजनीयम् ।
For Private And Personal Use Only