________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमो विश्रामः
१२५ mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm मन्यामहे इति चेत् , ततो युक्तियुक्तेयं चतुर्थी स्तुतिः। पुरापि कारणे कृता सम्प्रत्यपि कारणे क्रियमाणत्वादाचार्यपरम्पराऽध्याता च । अथ वयं निजगुरोः परम्परां मन्यामहे इतिचेत् । ततो 'ग्रामो नास्ति कुत: सीमा'" तव प्रथमं गुरुरेव न, कुतस्तस्य परम्परा । यतस्त्वद्गुरुः प्राक् व्रतं-राकाञ्चलरूपं, प्रथमं व्रतं भडकत्वा उत्थापनां त्रिस्तुतिरूपां कुतः-कस्मात् गुरोर्जग्राह । यतस्त्वद्गुर्वोः प्रथममताऽऽकर्षकयोदेवभद्रसूरिशीलगणसूर्योरन्यतरा गुणागुणविचारणा दूरतस्तिष्ठतु, बात्यवेषमात्रमपि न युक्तिपदवीमारोहति । यतः प्रथमं चन्द्रप्रभसूरिणा चतुर्दशीरूपं चारित्रं भग्नम् । ततस्तच्छिष्याज्ञा भग्नबतानामन्तिके त्वद्गुरुभ्यां वेष उपात्तः । ततस्साषि वेषकुप्रतिज्ञाञ्चलाऽऽदानेन भग्ना । ततस्सापि कुत्सिततराञ्चलप्रतिज्ञापि त्रिस्तुतिग्रहणेन भग्ना । तत एतयोस्त्वद्गुर्वोः का नाम परम्परा युक्तियुक्ता स्यात् ? ॥२४॥
भवान् मियो विरोधादि-शासनोडाहकृत्वमी। . तुर्यस्तुत्याऽधुनाऽऽचार्य-रानामात्याः प्रभावकाः ॥२५॥ व्याख्या-भवान् मिथ:-परस्परं, वतिनां मध्ये एकश्चतुईशीपक्षसङघो, द्वितीयस्त्वत्पक्षस्सअघबाह्मः, एवंविषविरोधः, आदिशब्दाल्लोकानां चेतसि परस्परमप्येते मत्सरिणः, क आराधक: को विराधकश्चेति शासनोड्डाहकारी चतुर्थस्तुतित्यागेन बभूव । इहलोके तवापि प्रत्यक्षमेतत् । परलोके विरुद्धमेतदित्यन्तरात्मना जानम्नपि स्वाभिनिवेशेन न मन्यसे इति भवद्वयं फलस्य प्रदर्शनं तव बभूव । तु-पुनरमी आचार्य राजामात्याः । आचार्या-नवाङ्गवृत्तिकारश्रीअभयदेवसूरि-वादीन्द्रश्रीदेवसूरि-राजगुरुश्रीहेमसूरिप्रभृतयो, राजानो-राजश्रीकुमारपालदेव-आचार्यश्रीजिनभद्रसूरिप्रतिबोधितजालन्धरदेशीयनगरकोट्टाख्यनगराधिपतिराजश्रीअपूर्वचन्द्र-तत्सुत
For Private And Personal Use Only