SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुरुतत्त्वप्रदीपे व्याख्या-चेद्-यदि, त्वं तं पाश्चात्यं सङघं न मन्यसे । तत एकतः-एकस्मात् पक्षात्, न सर्वस्मात् पक्षात् । त्वं सामाचारीचारी कि-कथम: ? सामाचार्यां चारः-प्रवृत्तिर्यस्य स । काचित् सामाचारी कथमादृतेत्यर्थः । सामाचार्याः पाश्चात्यसङघकृतत्वात् । चित्ते वाचि च सर्वा सामाचारीममन्वानस्य क्रियया काञ्चित् कुर्वाणस्य तव नकरूपता-नैव साधुलक्षणम् । उक्तं च-यथा चित्तं तथा वाचो, यथा वाचस्तथा क्रियाः । . चित्ते वाचि क्रियायां च, साधूनामेकरूपता ॥१॥ त्रिस्तुतिकैरङ्गीकृतायास्सामाचार्या मध्यात् काचित् सामाचार्युपदिश्यते-'दो जक्खपडिमाओ दो नागपडिमाओ दो भूयपडिमाओ दो कुंडधारगपडिमाओ दो चामरधारगपडिमाओ एगा छत्तधारगपडिमा' आगमे शाश्वतबिम्बान्येवम्भूतान्युच्यन्ते । ततोऽमीषामनुसारेणाशाश्वतबिम्बान्यपि कर्तुमित्थमेवोचितानि । यदपराजितादिग्रन्थप्रमाणेन सूत्रधारघटितानि बिम्बान्यनुमन्यन्ते, सा सामाचारी. १, प्रतिमाया: वस्त्राञ्चलः २, श्रीसुपार्श्वस्य पञ्चफणानां घटनं ३, श्रीपार्श्वनाथस्य सप्तफणानां घटनं ४, प्रतिक्रमणे प्राक् चैत्यवन्दना ५, पर्युषणाकल्पस्य दिवा वाचना ६, सामायिके काष्टासनानां क्षमाश्रमणदानं ७, चोलपट्टपरिधानं ८, चोलपट्टे दोरकश्च ९, कल्पप्रावरणं १०, पात्रमात्रकयोरूवं त्रेपणकदोरकाद्यादानं ११, पात्रकमात्रकनन्दीभाजनेषु पानीयाप्रक्षेपणं १२, गच्छस्य मध्ये एकेन केनचिद् व्रतिना जाग्रता स्थातव्यमित्याद्यागममुल्लङघ्य सर्वेषां निद्रा १३, अक्षराणां प्रमाणेन सिद्धान्ते चत्वारोऽनुयोगास्सन्तीत्यागममुल्लङघ्य सिद्धान्ते एकंकानुयोगग्रहणं १४, गोचरचर्यायां सर्वोपकरणमनादाय गमनं १५, कम्बलसंलग्नदशिकामयरजोहरणाग्रहणं १६, रजोहरणे वस्त्रनिषिद्यायां दवरक For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy