________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सप्तमो विश्रामः
स्वभावो विद्यते । ततस्सर्वथा सर्व प्रकारेण धर्मधर्मिणो भेदः पृथक्त्वं न विद्यते । वस्तुस्वभावाद् भिन्नाभिन्नरूपतैव । किमुक्तं भवति सङ्घपरम्पराऽऽगतस्य सङ्घस्य धर्मिणोगमने सङ्घधर्म आगमोऽपि त्वयाऽवगणितः । ततः आगमप्रध्वंसिनो भवतो वृषामिक इति नामोहनाभिमानः ||६||
पाश्चात्यो नं प्रमा चेत् तत् स त्वं सङधः पुनः प्रमा । सूत्रकर्त्रा निषिद्धापि चतुःपूर्वी बभूव तत् ।।७
११५
?
व्याख्या - इह किल त्रिस्तुतिक इति ब्रूते यदहं पाश्चात्यं किमपि न मन्ये । ततस्त्वं प्रति प्रोच्यते चेद्यदि, जिनशासन पाश्चात्यो न प्रमाणं ततस्स त्वं यत्तस्तावकीनस्थ मतस्याभ्ना निःसृतत्वात् पूर्वाचार्याणामपेक्षया त्वं पाश्चात्योऽत इत्थं त्वमेवाप्रमाणं बभूविथ । सङ्घः पुनः पाश्चात्योऽपि प्रमाणमेव । अत्रार्थे दृष्टान्तमाह-सूत्रे' त्यादि । सूत्रकर्त्रा सिद्धान्तका रेण श्रीभद्रबाहुस्वामिना सिद्धान्तप्रमाणेन स्थूलभद्रे चतुःपूर्वी निषिद्धापि पूर्व चतुष्टयं स्थूलभद्रस्य न दास्यामीति कृतेऽपि श्री सङ्घपादानामादेशेन तत्तस्मात् सङ्घप्रामाण्यभवनलक्षणात् कारणात् बभूव-स्थूलभद्रे दत्तेत्यर्थः । तीर्थकरवार के विद्यमान सङ्घस्यापेक्षया श्रीभद्रबाहुस्वामिवारके विद्यमानः सङ्घः पाश्चात्यस्तस्यापेक्षयाऽधुनातनस ऊधस्याप्यादेशः पाश्चात्यः । ततो यदि तस्मादेशः प्रमाणमतोऽधुनातनसङ्घस्याप्यादेशः प्रमाणमेव । अतः पूर्वधरंरप्यनुल्ल अधितं सङघादेशम कुर्वाणस्य तव ताम्रघटितं वा लोहघटितं वा कपालमाकाल विद्यते ॥७॥
मन्यसे चेन तं सामा- चारीचारी किमेकतः ॥ आचार्याद्देवभद्रात् किं ज्ञातं शीलगणादपि ॥८॥
For Private And Personal Use Only