________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठो विश्रामः
वासपरिहाणपरिहिया बलिपुप्फवकडच्छ्यहत्या गया। तओ पभावइए सव्वं बलिमाइ काउं भणियं-देवाधिदेवो महावीरवद्धमाणसामी तस्स पडिमा कीरउत्ति पहराहिवाहिओ कुहाडो ॥२५॥
माङगल्येन फलं पुष्पाद, वानस्पत्येन वा कथम् ।
होनं स्नात्रोदकादग्रो-दकं सावधमद्य किम् ? ॥२६॥ व्याख्या-पुष्पात् फलं माङ्गल्यन-मङ्गलत्वेन, वा-अथवा वानस्पत्येन-वनस्पतिविकारत्वेन' कथं हीनं ? अपि तु न हीनं, समानमित्यर्थः । ततः प्रभौ पुष्पानामनिषेधे फलानामप्यनिषेध एवापद्यते । अतः फलनिषेधेऽपि महामूढतैव तव । तथा चावश्यकचूणिः- पत्त-पुप्फ-फल-बीय-मल्ल-गंध-वण जाव चुण्णवासंति'त्ति। तथा स्नात्रोदकादग्रोदकं अवयं-सावद्यं किमभूत् ? सङघपरम्पराऽऽयातत्वेन अल्पत्वेन च प्रभोः पुरतो ढौकितोदकस्याल्पसावद्यत्वात्। तनिषेधे प्रकटैव महामूर्खतेति ।।२६।।
यद् यद् बहुफलं तत् तन्, निषिद्ध धिगजानता।
सङघतीर्थकरौ सूत्रं, मिथो हेतुत्वतस्सदा ॥२७॥ व्याख्या-अहो आञ्चलिक !.यत् यत् पूर्वोक्तं बहुफलं तत् तत् त्वया निषिद्धम् । धिगिति खेदे। किविशिष्टेन त्वया ? अजानता, कि ? सूत्रं किं तत्सूत्रं ? सङघतीर्थकरौ, कस्मात् ? मिथो हेतुत्वतः । तीर्थात् तीर्थकरः, तीर्थकरात् तीर्थमिति बीजाङकुरवद् भवनेनोभयोरपि सिद्धान्ततामजानानेन सङघपरम्पराऽऽयातं तीर्थकरोक्तमिव अक्षरेषु दृष्टमदृष्टं वा छिन्नसूत्रोक्तत्वात् सूत्रानुयायित्वात् वा सर्वमपि प्रमाणमेवेत्यश्रद्धानेनाभिनिवेशतरलिताऽन्तःकरणेन बहुफलमेवाखिलं निषिद्धमिति ।।२७।।
स्थापनाचार्य स्थापयन्नाह
For Private And Personal Use Only