________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
newmaraamar
तीर्थकृतिरहे यदव, बिम्बाऽऽलम्बनमागमे ।
गुरोरपि तथा नो चेन्, मिथ्यात्वं तदलक्षवत् ।।२८॥ व्या.-स्पष्टः । नवरं-अलक्षो-नौचित (त्र)कल्पितदेवताविशेषः॥२८॥
ग्रन्थविस्तरभीत्यान्य-दुत्सूत्रोत्खननं स्थितम् । श्रिता सुमतिसिंहेन, मिथ्यात्वं सार्द्धपौणिमा (में)॥२९।।
व्याख्या-स्पष्टः। नवरं-अन्यदुत्सूत्रोत्खननं कुमतकुट्टनादवसेयम् । तथा सुमतिसिंहसूरिः-सार्द्धपूणिमीयकमताऽऽकर्षक: प्रथमाचार्यः ॥२९॥
चतुर्वशी तत्प्रतिष्ठे, मिथ्यात्वं च ततः कथं ? ।
ताभ्यां कमात्प्रगृहीतं, स्थापितं चैत्यमर्च्यते ॥३०॥ व्याख्या-अहो सार्द्धपूर्णिमीयक ! चेत्-यदि, चतुर्दशी तत्प्रतिष्ठा .... । ब्दं शेषादानमुपपत्तित आगमतोऽपि । उक्तं च वसुदेवहिण्डिप्रथमखण्ड एकोनविंशतितमलम्भ-सयंपभा कन्ना अभिनंदण-जगनंदणचारणसमणसमोवे सुयधम्मा सम्मत्तं पडिवन्ना । अन्नया य पव्वदिवसे पोसहं अणुपालेऊण सिद्धायणकयपूआ पिउणो पासमागया। ताय ! सेसं गेण्हेत्ति। पणएण रण्णा पडिच्छिया सिरसित्ति । अथाऽस्य व्याख्या-स्वयंप्रभाभिधा कन्या खचरराज्ञः सुता। यदि पुनर्भद्रका स्यादित्याह-अभिनन्दन-जगन्नन्दननाम्नोश्चारणयोः समीपे श्रुतधर्मा सम्यक्त्वं प्रतिपन्ना। अन्यदा पर्वदिवसे पौषधमनुपाल्य तत्पारणके चैत्यं पूजयित्वा पितुः पार्वेगता जल्पति च यत् तात ! युगादिदेवस्य शेषां गृहाण । तेनापि राज्ञा प्रणतसिरसा गृहोता सा देवशेषेति । इत्येकोत्सूत्रनिराकरण । सीमनकगिरौ जिनायतने स्थितो वसुदेवः खेचरविमानपरिगतं गगनं निरीक्ष्य किमेतदिति ससम्भ्रममनिलयशसमाह । ततोऽनिलयशा
For Private And Personal Use Only