________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्वप्रदीप
वेषोऽशेषोपि नोक्तोऽस्या-नुमतित्वादकार्यतः ।
स यथा जिनकल्पस्य, विना कार्येण वार्यते ॥१४॥ व्याख्या-अस्य श्रावकस्य अशेषोपि-समग्रोपि वेषश्चतुर्दशोपकरणानि सति सामायिके सिद्धान्ते न उक्तो-न प्रोक्तानि । कुत? इत्याह-अनुमतित्वात् 'करतंपि अन्नं न समणुजाणामि' इत्यभणनात् । न केवलमनुमतिभावादकार्यतश्च-कार्याभावात् स समग्रोपि बेषो यथा-येन प्रकारेण जिनकल्पस्य-जिनकल्पिकस्य कार्येण विता वार्यते-निषिध्यते, तथा श्रावकस्यापि निषिद्धः । येषां जिनकल्पिकानां द्वादशभिरुपकरणैः कार्य न स्यात् ' आगमे तेषां मुखवस्त्रिकारजोहरणे एव प्रोक्ते । एतयोर्यतिलिङमार्थं जीवदयार्थं च यतेरवश्यंभावात् । तदेते देशयतेरपि युज्यते ।।१४।।
कथं वा देशचारित्रं, त्वदीये द्रव्यतो बत । मुच्यते ते किमात्ते चेत्, तदन्त्यप्रतिमः कथं? ॥१५॥
श्रुतोक्तत्वाविहाप्येवं, विद्या निर्गुरुका तु न । ज्ञातः शिवकुमारोक्ता-धर्थो मूढ! त्वया न यत् ॥१६॥युग्मम् ।
व्याख्या-आञ्चलिक! तावद्भगवता चारित्रं सर्वतो देशतश्चादिष्टम् । एक द्विधा । यत्सर्वतस्तदपि द्विधा-द्रव्यतो भावतश्च । एतदित्थं त्वयाप्यभ्युपगतमास्ते । तत एतदनुयायितया यत् देशतः तदपि द्रव्यतो भावत श्चेत्यापन्नम्। अतः त्वदीये बतेति खेदे । मुखस्त्रिकारजोहरणे विना देशचारित्रं द्रव्यतः कथं भवेत् ? । न कथञ्चिद्भवेदित्यर्थः । द्रव्यस्य लिङ्गधारित्वात् । परोक्तं विकल्पान्तरमाह- ते मुखवस्त्रिकारजोहरणे आत्तेत्वदीयश्रावकैहिते किं मुच्यते ? गृहितवेषस्य मोक्तुमनुचितत्वात्। इति चेत् । ततोऽन्त्यप्रतिमरेकादशीप्रतिमाधारकैस्ते आत्ते कथं मुच्यते ? | परः प्राह - श्रुतोक्तत्वात् ।
For Private And Personal Use Only