________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठो विश्रामः
भवेत् । शिक्षणानल्पत्वे शिक्षणनिष्पन्नत्वयोर्भेदाभावात् । अदान्तस्य पलायनात् । अत एवादिभूमिकस्य श्राद्धस्य साम्यमात्र एव मुखवस्त्रिकारजोहरणाभ्यसनम् । 'रूप्प'मित्यादि । यद्यस्मात्कारणात्, 'रूप्पमाद्यक्तितो' यदाह
'रूप्पं टकं विसमाहयक्खरं न वि य रूवओ छेओ ।
Pण्हपि समाओगे रूवो छेयत्तणमुवेइ ॥१॥ तथा 'रूप्पं पत्तंगबुहा टंक जे लिंङगधारिणो समणा। दव्वस्स य भावस्स य छेओं समणो समाओगे ॥२।। (आवश्यकनियुक्तिः) इति वचनात् ।। श्रमणो द्रव्यभावयोः समायोगे सति भवेत् । ततस्तस्मात्कारणात् । तस्य श्रमणस्य उपमयोपमानेन श्राद्ध-श्रावके द्रव्यस्य देशतो द्वे लिङगे-मुखवस्त्रिकारजोहरणे सिद्धयतः। किमुक्तं भवति-सिद्धान्ते श्रावके द्रव्याविनाभाविश्रमणोपमानदानेन द्रव्यदेशस्य सिद्धया द्रव्यदेशरूपं लिङगद्वयं सिद्धयति । किमित्याह-यतो-यस्मात्कारणात द्रव्यस्य सर्वत:-सर्वद्रव्ययुक्तत्वेन श्रामण्यं-श्रमणत्वं सिद्धान्ते उक्तम् । यः सर्वद्रव्ययुक्तस्स सिद्धान्ते श्रमगो विवक्षित इत्यर्थः । ततः सूत्रे श्रावकस्य सर्वद्रव्याभणनेन श्रमणोपमाभणनम् । तथा द्रव्यस्याभावात्-सिद्धान्ते श्रावकस्य द्रव्याभवनेन उपमापि-उपमानमपि न भवति, यदि सूत्रे श्रावकस्य द्रव्यमुक्तं न स्यात् । ततः श्रमणोपमाभणनेन देशत एव द्रव्यस्य सिद्धिरापद्यते ॥११॥१२॥
युग्मम् ॥ सामायिक कृते प्रोक्ता, श्रावके श्रमणोपमा।
भद्रबाहुस्वामिपावर, स्फुटमावश्यकागमे ॥१३॥ व्याख्या-स्पष्टः । नवरं यदाह-सामाइयम्मि वि कए समणो इव सावओ हवह जम्हा' ॥१३॥
For Private And Personal Use Only