SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दु.टी. सति त्वत्पचे निशामयेत्यारभ्य सप्तदशश्लोकानां सप्तदशमन्त्रत्वमनिर्वायं पुनरन्तिरस्य मन्चत्वकल्पने तन्त्रोक्तसंख्याविरोधापत्तेः, ततश्च निशामयेत्यई यो: स बभूवेत्यई योच यथा कथञ्चिदेकवाक्यताकल्पनेन श्लोकमन्वत्वसम्भवेऽपि सुरथो नाम राजा भूदिति श्लोकोत्तराई स्थस्य तस्य पालयत इति षष्ठयन्तस्य यस्य तत्रानन्वितस्य तदुत्तरश्लोकस्थशत्रुपदेनैवान्विततयाऽवान्तरवाक्यत्वस्यैव भङ्गेन कथमेकत्र मन्त्र त्वम्, एवं बभूवरित्यादिश्लोकत्रयस्य कथञ्चित् सम्भवेऽपि कोशो बलं चेति श्लोकस्थस्य मृगयाव्याजेनेत्यस्य तदुत्तरशोकस्थेन जगामेत्यनेनैवान्वययोग्यत्वात् तत्रापि मन्बत्वभङ्गः, तस्मात् तदनुरोधाय ममाम्ने वर्च इत्यत्रैव प्रथमश्लोक एव महावाक्यात्मकैकमन्त्रत्वस्वीकारी युक्त इति चेत् अये ! किमेतावत्येव दूरे तव दृष्टिर्धावति ? त्वत्यक्षे ततोऽपि परतरेषु मत्यैस्तरसहत्तै रित्यादिषु बहुषु लोकेषु कथं मन्त्रत्वाभङ्गः। अथ तस्यानन्यगतिकत्वेन तत्तहुचितपदान्तराध्याहारानुषङ्गादिना वाक्यपरिपूर्तिरायणीया, वर्षवेत्यादी छिनमीत्यस्याध्याहारेणावान्तरवाक्यत्वस्वीकारदर्शनात् ; अतएव हादशेऽध्याये पशुपुष्यार्घधूपैश्चेति श्लोकद्दयस्यारण्ये प्रान्तरे वापीति श्लोकचतुष्टयस्याप्य कान्वयित्वेनावान्तरवाक्यात्मकमन्वयाद्यात्मकत्वे युक्तऽपि प्रतिश्लोकं भिन्नमन्त्रता त्वया स्वीक्रियमाणाऽनयेवरीत्या निर्वाच्या गत्यस्तराभावादिति चेत् सत्यं, किं सुरथो नाम कोशो बलं चेति लोकयोरध्याहारादिकल्पना मभृत्यैस्तरित्यादिश्लोकेषु वेति विनिगमनाविरहः अथ सप्तदशश्लोक्या For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy