SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अतएव ब्रह्मोत्तरखण्डे प्रयोगः। बहुनात्र किमुक्तच लोकार्बेन वदाम्यहम् / ब्रह्महत्याशतं वापि शिवपूजा विनाशयेदिति / देवीभागवतेऽपि / वटपत्रशयानाय विष्णवे बालरूपिणे / श्लोकार्डेन तदा प्रोक्त भगवत्याखिलार्थदमिति उपक्रम्य, सर्व खल्विदमेवाहं नान्यदस्ति सनातनमिति संक्षिप्तभागवतस्थोक्तिः, अतएव तत्पुराणादिमपद्ये विचरणात्मके 'सर्व चैतन्यरूपा तामाद्यां विद्यां च धीमहि बुद्धिं या नः प्रचोदया'दित्याकारकेऽपि गाथात्मक: श्लोक इति व्यवहारोऽपि गौण एच, अतएव मात्स्यादावस्य श्लोकस्य 'गायत्रया च समारम्भस्त भागवतं विदुः यत्राधिकृत्य गायत्री वर्षांते धम्मविस्तर' इत्यादिरेव व्यवहारो न लोकत्वेन, लोकत्वापायेऽपि चतुर्विशत्यक्षरात्मतया गायत्रीत्वानपायात् तस्माच्चतुरूनाधिकचरणाम गाथासु लोकवाभावादष्टादशश्लोका इति प्रकृतव्यवहारः सृष्टिन्यायेनैव निर्वाह्यः / इदं तु विचार्यम् / तेषु कतमो मन्त्रोईनोकात्मक इति / सत्र कश्चिदाह सावाद्याः सप्तदशश्लोकमन्त्राः तदन्ते विद्यमानः प्रत्यक सतं वैश्यः प्रश्नयावनतो नृपमित्यर्द्ध श्लोकात्मको मन्त्र इति; स प्रष्टव्यः सर्वादी विद्यमानः सावर्णिः सूर्यतनयो यो मनुः कथ्यतेऽष्टम इत्यश्लोक एव कुतो न मन्त्र इति ; पारिशेष्यन्यायादन्त्य एवेति चेत् प्रथमोपस्थितन्यायसूचीकटाहन्यायाभ्यामाद्य एवास्तु / ननु यो मनुरिति यच्छब्दस्य तदुत्पत्तिमिति तच्छब्दसापेक्षत्वेन तदुभयघटितश्लोक एकं वाक्यं, मन्त्रत्वस्य परिपूर्णवाक्यत्वव्याप्यतया सावर्णिरित्यईस्य साकाङ्गत्वेन निराकाङ्क For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy