________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्रयोदशश्लोकाः // ईश्वर उवाच / मार्कण्डेय उवाचाद्यो मन्त्रः श्लोकात्मकास्ततः / व्योमादिवर्णमारभ्य हितोयस्वरसंयुतम्। नृपमित्यन्तिमामन्त्राभवन्त्यष्टादशप्रिये। व्योमहकारः तस्यादिवर्णः सकारः दु.टी. तं द्वितीयेन आकारस्वरेण संयुतं सावर्णिपदस्थमारभ्य प्रश्चयावनितो नृपमित्यन्तिमो येषां ते मन्त्रा अष्टा दश भवन्ति ; प्रिये ! इति शिवततं देवीसम्बोधनम् / यद्यपि ते सार्दा एव सप्तदशश्लोका भवन्ति न पूर्णा अष्टादश तथापि तेष्वे कोई श्लोकात्मको मन्त्रोऽस्तौति ध्वननेन मन्त्रसंख्याया अविरोधः, मध्येऽई श्लोकमन्त्रास्तु चविंशतिरीरिता इति पटलान्त निर्देशाच्च / इह रोकात्मका अष्टादशैत्युक्तिस्तु (1) सप्तदशमृष्टीरुपदधातौति नानेया / श्लोकशब्दस्तु चरणचतुष्टयघटित एव, पद्ये रूढ़त्वात्। विचरणादेर्गाथाव्यवहारस्य मुख्यत्वेऽपि श्लोकव्यवहारस्य तावतैव परस्परान्वितैकार्थप्रतिपादकत्वनिबन्धनस्य तादृशस्थले सतोऽपि गौणत्वात् (1) अग्निचयने एकया स्तुवत. अ. 14 मं० 28 इत्यादीनि सप्तदशयजंषि यासामुपधाने नियुज्यन्ते ताः सप्तदर्शष्टिकाः सृष्टि शब्दोपेत मन्त्रैरुपधीयमानत्वात् सृष्टिसंज्ञाः तत्र यद्यपि एकया स्तुवतेत्यादीनि कतिपययषि न सृष्टिशब्दोपेतानि तथापि भूनां सृष्टिशब्दोपेतत्वात्तत्साहचर्यादल्पीयसामविद्यमानमपि सृष्टिशब्दोपेतत्वमुपचर्यते। तहत् अत्रापि भूनां सप्तदशमन्त्राणां श्लोकात्मत्वे समाहचर्यादेकस्मिबाईश्लोकात्मकै विद्यमानमपि नोकत्वमपचर्यते इत्याह अष्टादशति / For Private and Personal Use Only