________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथायं सप्तशतीमन्त्रः श्लोकसंख्याभेदेन त्रिविधोऽपि व्यवस्थयैव विभिस्तन्वैरवलम्बितोऽपि न भिद्यते, शाखान्तराधिकरणन्यायेन कम्मण इव (1) सर्ववेदान्तप्रत्ययन्यायेन विद्याया (2) इवास्य मन्त्र (1) शाखान्तराधिकरणन्यायश्च जैमिनीयमीमांसायां द्वितीयाध्यायस्य चतुर्थे पादे प्रसिद्धः तद्यथा। काठककाखमाध्यन्दिनतैत्तिरीयादिषु प्रतिशाख दर्शादिकर्मप्रतिपाद्यते, तत्र शाखाभेदात् कर्मभिद्यतेन वेति संशयः / शाखाभेदात् कर्मभेदः कुत: भेदकारणानां काठककाखेत्यादौनां ग्रन्थनाम्नां बहुलमुपलम्भात्। तथा क्रियाभेदात् धर्मभेदात् पुनरुक्त्यादिदोषाच्च कर्मभिद्यते। न हि दर्शादिक्रियासर्वशाखामाधारिण्येका किञ्चित् किञ्चिद्वैलक्षण्वस्य तत्र सर्वत्र विद्यमानत्वात्। तथा धर्मभेदोऽपि बहुलमुपलभ्यते तत्तच्छाखीयानाम् / यदि कठादिप्रोक्तमेव कर्मकाखादिषु प्रतिपाद्यते तदा पुनरुक्तिदोषोऽपौत्यतः प्रतिशाखं कर्मभेद इति पूर्वः पक्षः / नामभेदादौनामन्यथापि सम्भवात् यदेकस्या शाखायां यागस्य रूपं चोदनाविधिः फलसम्बन्धो नामधेयं च प्रतिपाद्यते तदेव तस्याऽन्यशाखावपौति रूयाद्यभेदात् सर्वशाखाप्रत्ययमेकं कर्मेति सिद्धान्तः प्रकृतेऽपि यामलवाराहीकात्यायन्धादिषु प्रतितन्वं सप्तशती पठ्यते तत्र तन्त्राणां यामलेत्यादिनामभेदात्, यामलोक्तपाठे सप्तशतसंख्यापूर्तये नवार्णशरणीकरणमन्यत्र चान्यथा मन्त्र विभागाद्यवलम्बनमित्यादिक्रियाभेदात्, एकत्र पठितस्यैव पुनरन्यत्र पठनमिति पुनरुक्तिदोषाच सप्तशतीमन्त्रः प्रतितन्त्र भिन्न एवेति पूर्वपक्षः / मन्त्रात्मकयागखरूपं, जपेत्सप्तशती चण्डौमिति चोदनाविधिादशाध्यायोक्त फलसम्बन्धः सप्तशतीति मन्त्रनाम च सर्ववैकमिति तन्त्रत्रयावलम्बित एक एव सप्तशतीमन्त्रो न तु प्रतितन्वं भिन्न इति सिद्धान्तः। (2) सर्ववेदान्तप्रत्ययन्यायश्च / सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् 33331 इत्यादिवेदान्तपञ्चसूत्रधामनुसन्धेयः / For Private and Personal Use Only