________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ददातौति / धातुद्दयेन मिलित्वा दानप्रतिग्रहनामकस्यैव कम्मणो विधिः, सत् स्वरूपञ्च गुरुकोलके व्यक्ती भविष्यति // 8 // ल.को ददाति प्रतिगृह्नाति नान्यथैषा प्रसीदति। इत्थं रूपेण कौलेन महादिवेन कौलिताम् // 8 // प्र० / परन्तु हे शिष्यास्तत्स्तोत्र सर्वेषामप्यचिन्त्यफलप्रदं जातमिति सर्वेऽपि सर्वेखरा भविष्यन्तीति ज्ञात्वा महादेवेन कोलितमस्तीत्याह कृष्णायामिति कृष्णचतुर्दश्याम् अष्टम्यां वा कृष्णायां 'समाहित' एकाग्रः सन् य उपासको निजं सर्व धनं न्यायेनार्जितं देव्यै ‘ददाति समर्पयति, हे देवि ! इत आरभ्येदं सर्वं धनं मदीयं तुभ्यं मया दत्तमस्ति इति समर्पयति पश्चात् संसारयानानिर्वाहार्थं गृहाणेदं द्रव्यं मत्प्रसादभूतमिति देव्या अनुज्ञां मनसा राहीत्वा तद्रव्यं प्रसादबुध्या 'प्रतियहाति' गृहीत्वा च धर्मशास्त्रोक्तमार्गेण तस्य व्ययं कुर्वनिरन्तरं देव्यधीनो भवति तस्यैषा सप्तशती प्रसन्ना भवति नान्यथा' 'इत्यं रूपेण कीलेन' सिद्धिप्रतिउम्भकरण 'महादेवेन' कीलितमस्ति अयञ्च कीलकस्यार्थी रहस्यागमे गुरुकीलकपटले प्रदर्शित: अग्रे स्पष्टीकरिष्यामः सहि किं कर्त्तव्यमित्याह योनिःकीलामिति // 8 // For Private and Personal Use Only