________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्तोत्रमिति / चण्डिकायाः स्तोत्र गुह्य'मप्रवरदवस्थं चकार क्वचित् प्रचारमात्रेण यत्नात् तल्लाभेऽपि तस्य 'पुण्यस्य', तज्जन्यफलातिशयस्य या 'नसमाप्ति'रनन्तता तामपि नियन्त्रणां' नियन्त्रितां निगूढोपायां चकार॥ ल.की स्तोत्रं वै चण्डिकायास्तु तच्च गुह्यं चकार सः। समाप्तिन च पुण्यस्य तां यथावन्नियन्त्रणाम् // 6 // प्र. / निमन्त्रयामास निमन्त्रितवानल्लोकान्, तानागतानाह। किमिति ‘एवं' वक्ष्यमाणप्रकारेणदं सप्तशत्याख्यमेव शुभमिति अत्र तानाहेति शेषः // 5 // अनन्तरं च चण्डिकायास्तु चण्डिकाया एव स्तोत्रं सप्तसत्याख्यं तच्च गुह्यमतिरहस्यं चकारपूर्वोक्तमन्त्रजपरूपपक्षापेक्षया द्वितीयं पक्षमेव सारभूतं चकारीत्यर्थः इति मार्कण्डेयेन तन्त्रोक्तं पूर्ववृत्तं कथितं पुनः शिष्यान् सप्तशतीमाहात्मा' कथयंश्छिवाभिप्रायं कथयति यस्मादेतत् स्तोत्रपाठजन्यफलस्य न समाप्तिः कदापि भवति तत्तन्मन्त्रजपजन्यपुण्यस्य तु समाप्तिरस्ति तस्मात्तां पूर्वोक्तां शिवेन कृतां नियत्रणां प्रथमपक्षस्य सङ्कोचरूयां यथावद यथार्थमेव जानीध्वमिति शेषः // 6 // For Private and Personal Use Only